पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 'सव्याख्यायामद्वैत सिद्धौ [ प्रथमः अतएव -' आत्मैवाभूद्विजानत' इति समानार्थक श्रुत्युत्तरं 'तत्र को मोहः कश्शोक' इत्याद्युक्तम् । एवंचात्ममात्रस्य मोक्षस्वसंभवेन मोक्ष- द्वैताङ्गीकार : ' श्रुत्यैवाक्षिप्त इति तदङ्गीकारिणो भ्रान्ता एव । 'सर्व तं परादादि' त्यादिकं तु नात्मनः सवाधारत्वपरम्; किंतु भेददृष्टिनिन्दा- परम्; 'नान्यः प्रतिबलो लोके तबार्जुन भविष्यति । अन्यत्र भीष्मात्' इत्यादौ 'अहिंसन्नन्यन्त्र तीर्थेभ्यः' इत्या- दिश्रुतौ चान्यत्रेत्यस्याव्ययप्रथमान्तत्वादिदर्शनात् । तीर्थेभ्यो याज्ञये- भ्योऽन्यत्र अन्यम् | दुन्दुभेरित्यादिकं तु यथा दुन्दुभेस्तदीयशब्दसा- मान्यस्याग्रहणकाले तदीयशब्दविशेषाग्रहणम्; तस्मिस्तेषामध्यस्तत्वा तथा ब्रह्मणः सद्रूपस्याग्रहणकाले न द्वैतग्रहणमिति तत्र तदध्यस्तम् । यथाऽऽद्रेन्धन विशिष्टाग्न्युपादानको धूमस्तादृशामिं विना न तिष्ठति तथा सद्रूपब्रह्म विना न द्वैतं तिष्ठतीति तत्तदुपादानकमित्यर्थकम् । तथा च 'सर्व तमि' त्यादिवाक्यं 'इदं सर्व यदयमात्मा' इत्यस्य प्रति- ज्ञातार्थस्योपपादकम् । आद्रेन्धनम्योपादानत्वा सद्विशिष्टस्योपादानत्वोक्ति- विशिष्टस्यैव वन्हेरुपादानत्वाद्वा । यत्तु – अनुच्छित्तिधर्मो यस्येत्यर्थो न युक्तः ; 'धर्मादनिच्केवलादि त्यनेन केवलोपपदयुक्ताद्धर्मशब्दाद- निच्प्रत्ययविधानादिति – तन्न; अनुच्छित्तिशब्दस्य पदान्तरायुक्तत्वेन केवलत्वा नपायात्रिपदबहुव्रीहिव्यावृत्तय एव केबलग्रहणात्, अन्यथा निवृत्तिधर्मेत्यादेरसाधुत्वापातात् । 'यथाऽस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव प्रियते एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वमं पश्यति, ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा -- - . माझ ताङ्गीकारः -ग.