पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीरच्छेदः] एकमेवत्यादिश्रुत्यर्थविचारः 275 ही 'त्यादिना 'न प्रेत्य संज्ञास्ती 'त्यत्रोक्ते विशेषविज्ञानाभावे हेतुकथ- नेनाद्वैतवादस्य स्फुटत्वात् । स्वदुक्तार्थे च द्वैतमिवेती व शब्दवैयर्थ्यम् । मन्मते तु व्यवहारकालेऽप्याभासरूपत्वेनाल्पं द्वैतमित्यर्थस्य 'यत्र वस्येति वाक्यार्थोपयोगः | रूपादिज्ञानाभावेपि नित्यानर्दुःखनिरति- शयानन्दस्याद्वैतमोक्षस्यांनावृतस्य परमपुरुषार्थत्वेन श्रुत्या हेयत्वोक्तय- संभवश्ध त्वन्मते स्फुटः । मन्मते अविनाशीत्यस्य न पौनरुक्तयम्; अविक्रियार्थकत्वेन भाष्योक्तत्वात्, उच्छित्तिरत्यन्तो च्छेदो धर्मः प्रति- योगितयां यस्यास्ति तदन्यस्यानुच्छित्ति धर्मशब्देन बोधनात्, यथा- सन्निवेशे धर्मपदावैयर्थ्यात् । अथवा न विद्यते उच्छितिर्विशेषगुणग- णोच्छेदरूपो धर्मो यत्रेति विग्रहः । तथाच 'न प्रेत्य संज्ञास्ती 'त्यस्या- त्मनाशेऽशेषविशेषगुणोच्छेदे वा मोक्षे तात्पर्यमिति मुह्यान्तीं मैत्रेयी •प्रत्यविनाशीत्यनेनाद्यस्यानुच्छित्तिधर्मेत्यनेनान्यस्य मोक्षत्वं निरस्तम् । तत्र धर्मग्रहणमुच्छेदधर्मकत्वमात्मनो न संभवति ; निर्द्धर्मकत्वात्स्योत ज्ञापनाय, तथाच 'तान्येत्रानुविनश्यती ' त्यनेनेोक्तायां तत्वज्ञानप्रयुक्त सर्व- द्वैतनिवृत्तौ 'न प्रेत्य संज्ञे' त्यनेन रूपादिविशेषज्ञानाभावे चोते सामान्यविज्ञानमात्ररूपस्य मोक्षत्वं लब्धम् । तस्य च पुरुषार्थत्वं न संभवति; लोके रूपादिज्ञानजन्यसुखस्यैव पुरुषार्थत्वदर्शनादित्या- शङ्कायां यत्र हीत्यादिना द्वैते सति लौकिकं क्षुद्रसुखमेव रूपादिज्ञान जन्यम्, तच्च सर्व सभयम्; 'द्वितीया भयम् ' ' उदरमन्तरं कुरुते, ' 'अथ तस्य भयम्' इत्यादिश्रुतेरित्युक्तम् । आत्ममात्रस्य तु मोक्षस्य परमानन्दत्वात्परमपुरुषार्थत्वमिति यत्र त्वस्येत्यादिनोक्तम् | तस्य चाना- वृत स्वप्रकाशत्वान्नित्यत्वाच्च न' ज्ञानस्वरूपयोरुत्पत्तौ साधनापेक्षेति तत्के- नेत्यादिनोक्तम् । द्वितीयाभावादेव तदा तस्य सुखस्य निर्भयत्वं सूचितम् ।. 1 तदन्यानुच्छिनि-क. ग. " स्वप्रकाशत्वान्न -ग. 18* .