पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 263 धारणात् । नानार्थपदानामर्थान्तरोपस्थापकत्वसंभवेऽपि प्रकृत- वाक्यार्थानन्वयितया तत्परित्यागेन प्रकृतवाक्यार्थानुकूलपदा- र्थोपस्थितिपरत्वमेवास्थेयम् । तत्र न द्वितीयमद्वितीयमिति तत्पुरुषाभ्युपगमे न द्वितीयम्, किंतु प्रथमं तृतीयं चेत्यर्थः स्यात्, स च न संभवति तयोरपि किंचिदपेक्ष्य द्विती- यत्वात्, अतो न विद्यते द्वितीयं यत्रेति बहुव्रीहिरेवांदर- णीयः । न च एकेनैवाद्वितीयपदेन भेदत्रयनिषेधसंभवे एकाव- धारणपदयोर्वैय्यर्थ्यमिति वाच्यम्; विजातीयं किंचिदपेक्ष्य द्वितीयत्वावच्छिन्न निषेधस्याद्वितीयशब्दार्थत्वात् । अयं चात्र संकोचो बलीवर्दपदसावधानाद्गोपद इव सजातीयस्वगतभेद- निषेध कैकावधारणपदस निधिप्रयुक्त एव । तदुक्तम्- वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः । वृक्षान्तरात्सजातीयो विजातीय: शिलादितः तथा सवस्तुनो भेदत्रयं प्राप्तं निवार्यते । एकावधारणद्वैतप्रतिषेधैत्रिभिः क्रमात् || इति । , अपरस्मात् अस्थूलमित्यादितः । पदानां अद्वितीयादिपदानाम् । प्रकृतेति। एकमेवाद्वितीयमित्येतदित्यर्थः । वाक्यार्थेति । अखण्डब्रह्मरूपे- त्यर्थः । प्रथमादिरूपस्याद्वितीयपदार्थस्य न केवलमखण्डवाक्यार्थविरोधि- त्वम्, किं त्वसंभवादपि निरास इत्याह - तंत्रेत्यादि । द्वितीयत्वादिति । तयोः प्रथमत्वादिना नाद्वितीयपदबोध्यता किंतु द्वितीय मिन्नत्वेन सा चन संभवति; द्वितीयत्वादिति भावः । भेदत्रयेति । भेदभेद्यमात्रस्य द्विती- यत्वादद्वितीयपदेन दृश्यमात्र निषेधसंभव इति भावः । अपेक्ष्येति । विजातीयद्वितीयत्वावच्छिन्न प्रतियोगिताकनिषेषोऽर्थ इति भावः । संकोचः द्वितीयपदस्य विजातीयद्वितीयपरत्वम् । एकावधारणद्वैतप्रतिषेधैरिति ।