परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 261 प्रपञ्चस्य स्वकाले स्वसमानाधिकरणनिषेषप्रेतियोगित्वासिद्धेरिति चेन्न; उक्तसत्व प्रतियोगित्वयोर्न प्रकृते घी:, किंतु इदमभिन्नमत्रे यदासत्तित्स- देव एकमेवाद्वितीयमित्येवमुद्देश्य विधेयभावस्य विवक्षितत्वात् । अग्रे सदनुवादेनाखण्डसदद्वितीयविधानेनाग्रेसत्वेना नूद्यमानस्याखण्डसदद्विती- यस्यैव । तथाचावान्तरतात्पर्येणाद्वितीयादिपदै : ' सदन्यसामान्यमिथ्यात्व- बोधो न व्याहतः; सदन्यनिषेधेऽद्वितीयपदेन बोध्यमानेऽमकालानन्व- यात्, यद इदमभिन्नमासीदित्येव कालान्वयात् । इत्थं च सद्व्यति- रेकेण नासीदित्यस्यैव निषेधार्थत्वादित्यत्र मूलवाक्येऽपि यदासत्तित्सद- न्यन्नेत्यस्य सदेवासीदित्येतदर्थत्वात् तत्सदन्यशून्यमित्यस्याद्वितीयादि- पदार्थत्वादित्यर्थः । एवंचाग्र आसीदिदमिति पदानि न व्यर्थानि । अग्रेड- सदेव कार्यस्य स्वरूपमिति शून्यवादस्य निरासाय तेषामनुवादत्वात्स- देकमेवाद्वितीयमित्युक्ते तच्छ्रवणमात्रेण मूढानां व्युत्पाद्यानां सन् घट इत्यादि प्रत्यक्ष विरोधभ्रमेण व्यामोहात्तन्निरासार्थमवान्तरतात्पर्यविषये द्वितीयाभावेऽनन्वितार्थकस्याग्रह इत्यादरुक्तत्वात् । न चैवमपि द्विती- याभावस्य व्याप्यवृत्तित्वालाभान्न मिथ्यात्वसिद्धिरिति – वाच्यम् ; सद्रूपे प्रतीतस्य तस्य परिच्छेदकाकाङ्क्षायां संकोचकाभावादेव सर्व- कालस्यैव परिच्छेदकतया कल्पनात् । एवकारस्यावृत्या द्वितीयाभावा- योगव्यवच्छेदबोधकत्वेन यदा यदा सद्रूपं तदा द्वितीयाभाव इति व्यापकत्वलाभाद्वा विशेष्यतावच्छेदकविशिष्टस्यैकव्यक्तिमात्रत्वे यत्र यत्र विशेष्यतावच्छेदकं तत्र तत्रायोगव्यवच्छेद इति दैशिकव्याप कत्वधियो वैय्यर्थ्यात् । अव्याकृतना मरूपावस्थैवाप्रशब्देन कालरूपा भिधीयत इति कालान्तरस्य तदानीमभावेऽपि न क्षतिः । यदि च इदमिति सामानाधिकरण्यं बाधायाम्, अग्र आसीदिति च न विवक्षित- 1 उक्तासत्व-क. ग. 2 णाद्वितीयादेः -क. 3 प्रत्यक्षादि - क. ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८८
दिखावट