पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

258 सव्याख्यायामद्वैतसिद्धो अथ एकमेवेत्यादिश्रुत्यर्थविचार: ननु – यद्यपि 'सलिल एको द्रष्टा अद्वैत' इत्यत्र सलिल - शब्दस्य तत्सादृश्यात्स्वच्छत्व मात्र परत्वात् तस्य च सर्वमला- संसर्गित्वस्वरूपस्याद्वैतेऽप्युपपत्तेः 'सदेव सोम्येदमग्र आसी- परा'स चाखण्डचिदेव, किंचिद्विशिष्टस्य विवक्षितत्वे गौणाभेद एव तथा स्याद्विशिष्ट केवलयोर्भेदसत्वेन तस्य मेदसामान्याविरोधित्वात् । यतु --- सर्व वस्तु स्वस्मादभिन्नमित्यद्वैतवाक्यार्थः, एवं 'नेह नाने' त्याद्यर्थोऽपि स एव ; घटादिव्यक्तौ क्षणिकवादेन नानात्वप्रसक्तेरित्यादि – तन्न ; ब्रह्माद्वैतस्यैव प्रकरणत्वात् उक्ताभेदस्य भेदसामान्याविरोधित्वात्, भेदभेद्यसामान्यनिषेधेन मुख्याभेदबोधने बाघकाभावाच ॥ इत्यद्वैत श्रुतबधोद्धारः. [ प्रथमः अथ एकमेवेत्यादिश्रुत्यर्थविचारः सलिल शब्दस्य सलिलवाचकशब्दस्य | तेन तत्सादृश्येत्यत्र तत्प- दस्य प्रक्रान्तसलिलबोषकत्वम् । स्वच्छत्वेति । त्वंपदार्थशोधकप्रकरणे जलरूपमुख्यार्थस्यान्वयासंभवाद्दष्टृपदेन ब्रह्मोक्ता तत्र सप्तम्यन्तत्वं सलि- लपदस्य कल्पयित्वा जलाधेयत्वान्वयकल्पनस्यायुक्तत्वमिति भावः । एतेन – सलिलबत्स्वच्छीभूत इति बृहदारण्यकमाण्यव्याख्या न युक्ता; लाक्षणिकत्वेऽपि सलिलपदस्य क्लीबत्वात् 'आप एवेदमग्र आसंस्ता आपः सत्यमसृजन्ते ' त्यादिबृहदारण्यकात् 'आपो वा इदमग्र आस- न्सलिलमेवे ' त्यादिश्रुत्यन्तराच प्रकृते सलिलपदस्य सप्तम्यन्तत्वौचित्या- चेति – परास्तम्; सृष्टिवाक्ये जलान्वयसंभवेऽपि प्रकृते तदसम्भवात् । 1 प्राकरणिकत्वात् --ग. , (