पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भूतबाधीद्धारः 257 मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभित्रमिति मते वा न प्रत्यक्षादिविरोधः । नापि पूर्वोत्तरविरोधः ॥ इत्यद्वैतश्रुतेर्बाधोद्धारः. - ब्रह्मभेदाभावानुयोगिता तद्वच्छ्रुत्यापि तादृशाभेदो बोध्यत इति मते । मतान्तरमाह - मिथ्येति । 'एकमेवे ' त्यादिश्रुत्या मिथ्यात्वेन बोषिते- त्यर्थः । प्रपञ्चस्येत्यादिः । सन्मात्रमेव ब्रह्माभिनं सत्वेन सदेव ब्रह्मभेदाभावानुयोगिन द्रव्यत्वादिना द्रव्यादि; द्रव्यत्वाद्यवच्छिन्नानु- योगिता कभेदस्य सत्वावच्छेदेनापि प्रसक्तेरुक्तत्वात्सत्वावच्छेदेनापि भेद- निषेधः श्रुत्या बोध्यते । मेदस्य मिथ्यात्वेन तदभावस्य द्रव्यादौ सत्वेऽपि तदनुयोगिता न द्रव्यत्वादिना; किंतु सत्वेन, सैव 'सर्व खल्विदं ब्रह्मे'ति श्रुतिविषयः; द्रव्यत्वादिसर्वधर्मविशिष्टस्य कल्पित भावरूपसत्तादात्म्यादभिन्नसत्तादात्म्यरूपं सामानाधिकरण्यमेव ब्रह्मणो द्रव्यादौ भातीति स्वीकारात् । अथवा प्रपञ्चे ब्रह्मणः कल्पितं यद्भास्यतानियामकं भावरूपं तादात्म्यं तदेवोक्तश्रुतिविषय इति भावः । न प्रत्यक्षेत्यादि । आद्यमते उक्तरीत्या नें रजतमि' त्यादिप्रत्यक्षस्य द्वितीयमते' सर्व स्खल्विदमित्यादिश्रुतिविशेषात्पूर्वोत्तरश्रुतीनां विरोधो नेत्यर्थः । अथवा — तथाच प्रत्यक्षादिविरोधात्पूर्वोत्तराविरोधाचेत्यादिना श्रुतेरद्वैतपरत्वाभावशङ्का कृता पूर्वम्, तत्र प्रत्यक्षाद्यविरोधमुपसंहृत्य पूर्वापरविरोधं श्रुतौ वक्ष्यमाणं निरसितुं प्रतिजानीते -नापीति ॥ - यत्तु – प्रमेयत्वाविरूपेण भेदं श्रुतिर्वक्तीति – तन्न; उक्तं हि खण्डने – 'एकपदमुक्ता यंदेवकारमादत्ते श्रुतिस्तेन सात्यन्तिकाभेद- 1 णाभेद - क. ग. ADVAITA VoL. II. 17