पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत श्रुतेर्बाधोद्धारः 249 वेदान्तकल्पलतिकायामस्यार्थस्य प्रपञ्चो द्रष्टव्यः । एतेन - चरमज्ञान मिथ्यात्वेऽपि न तद्विषयस्य मिथ्यात्वम् ; ज्ञान- मिथ्यात्वस्य विषयमिथ्यात्वासाधकत्वात् । अद्वैतज्ञाने चारादिति – निरस्तम्; श्रुत्यैव द्वैतमात्रनिषेध्यत्वबोधनात् । अद्वैतज्ञानविषये च मिथ्यात्वबोधकाभावादेव सत्यत्वम्, न तु ज्ञानमिथ्यात्वादिति न किंचिदेतत् । ननु – द्वैतज्ञानाद्वैतज्ञान- योरभेदे कथं बाध्यबाधकभाव : ? न च व्यावहारिक भेदमात्रेण स: ; द्वैतज्ञानस्यापि बाधकत्वापत्तेरिति – चेन्न; व्यावहारिक- भेदमात्रस्य बाघकत्वाप्रयोजकत्वात् । यद्धि परीक्षितप्रमाणभाव- परिच्छेदः] विशिष्टघीसामग्रीकल्पने गौरवाच्छाब्दव्यावृत्तरूपेणैव प्रतिबध्यत्वम् । योग्यताज्ञानहेतुत्वे च न मानम्; इतरकारणसत्वे तद्विलम्बेन शाब्दघी- विलम्बस्यादृष्टत्वादिति भावः । एतेन द्रागेव श्रुत्या सर्वाद्वैतबोधनेन । श्रुत्यैवेत्येवकारार्थो विवक्षितः, सच ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वसाध- कत्वव्यवच्छेदः । श्रुतेर्बोध'कत्वं तु नात्र विवक्षितम् ; तेनैतेनेत्यनेन न पौनरुक्तयम् । ज्ञानमिथ्यात्वादिति | विषयमिथ्यात्वमिति शेषः । व्यावहारिक भेदमात्रस्येत्यादि । यद्यप्यद्वैतज्ञानोत्पत्तिद्वितीयक्षणे द्वैत- मात्रोच्छेद: ; जीवन्मुक्तानामपि भेदप्रतिभासो भ्रमत्वेन निश्चीयमान- त्वान्न बाध्यबाधकभावादितद्धीप्रयोजकः; न हि विरोधिविषयकत्वा- द्यंशे बाध्यत्वाभिमताद्भिन्नत्वांशे वा भ्रमत्वेन निश्चीयमानज्ञाने बाधकत्वं भ्रमत्वज्ञानोत्पादकत्वं तद्धीर्वा कम्यचित्संभवति, तथापि द्वैतवादिनां विचारदशायां पापासंभावनादिदोषेण द्वैत ज्ञानस्यैव भ्रमत्वशंकास्पद- त्वात्, तेषां द्वैतज्ञानस्यातथात्वादतथाभूतभेदज्ञानसंभवात् तान्प्रत्य 2 णाद्वैत-ग. 1 बध-ग. -