पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

218 सव्याख्यायामद्वैतसिद्धौ [प्रथमः अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम्, न वा योग्यता- ज्ञानं हेतुः; येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात् । तदुक्तम्- अत्यन्तासत्यपि ज्ञानमर्थे शब्द: करोति हि । अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिथलाम् ॥ इति । प्रवृत्तेनाप्यनौचित्यमूलं येन न लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यातु नात्र तत् ॥ इति । अत्राद्वैत श्रुतावित्यादिरीत्या श्रुतेर्बाध्यत्वशंकानिरासेन प्रामाण्य - व्यवस्थापकानामस्मदीयज्ञानानां श्रुतिप्राबल्यविषयकानामेव क्रमेणो- त्पत्तिः । श्रुत्या तु सकृदेव सर्वाद्वैतं बोध्यते । न तु प्रत्यक्षाद्य- गृहतिभेदके चरमज्ञाने वा आदावद्वैतं बोधयित्वा पश्चादन्यत्र बोध्यत इति भावः । न स्यादिति । प्रत्यक्षादिरूपेणा योग्यताज्ञानेन प्रति- बन्घादिति शेषः । अत्यन्तासति । विपरीततया निश्चिते कलहादि- स्थल इति शेषः । अबाधादिति । कलहादिस्थलेऽनाप्तत्वादिना वाक्यार्थज्ञानस्य भ्रमत्वेऽपि श्रौतज्ञानस्योक्तरीत्या भ्रमत्वज्ञानरूपबाधा- संभवादित्यर्थः । स्वतः प्रामाण्यनिश्चलाम्, स्वतः सिद्धप्रमात्वान्निश्शं - काप्रामाण्यं विपरीतज्ञानरूपस्यायोग्यताज्ञानस्य प्रतिबध्यत्वं न परोक्षा परोक्षसाधारण रूपेण ; प्रत्यक्षस्थले इच्छाविषयस्याप्रतिबध्य' त्वेन तद्व्या- वृत्तरूपेणैव प्रतिबध्यत्वात् । अतएवोक्तं मणिकृता 'प्रत्यक्षादा- वुत्पन्ने ज्ञानेऽप्रामाण्यमासज्यते बाधेन अनुमितौ तूत्पत्तिरेव प्रति- बध्यत' इति । एवंच परोक्षस्यानुमितित्वेनैव प्रतिबध्यत्वम् ; विप रीतधीसत्वे उद्बोधकसत्वे मानाभावेन तदभावादेव स्मृत्यभावोपपत्तेरनु- गतोद्घोषके मानाभावात् । भावे वा परोक्षत्वजातौ मानाभावेनाकप्तत्वात् । बाघस्थले शाब्दबोधस्य निश्चितत्वात् । अन्यथा कलहादिस्थले शाब्दान्य- 1 बाध्य - ख.