परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः त्वादौ, नाद्यः; त्वयैव द्वितीयभावस्य प्रमाणान्तरप्रा- तथनभ्युपगमात् । द्वितीयेऽपि विरोधिमानं न तावत्प्रत्यक्षादि द्वैतग्राहि; त्वन्मते तस्यैव श्रुतिबाध्यत्वात् ; नाद्वैतवाक्यान्त- रम्; तस्यात्ममात्रपरत्वे द्वितीयाभावाविरोधित्वात्, न हि विशे- व्यविषयं 'अग्निहोत्रं जुहोति' इति वाक्यं विशि विषयेण 'दना- जुहोति' इति वाक्येन विरुध्यते, द्वेताभावपरत्वे त्वेकविषय- त्वेन सुतरामविरोधात् । नापि तृतीयः 'ग्रहं सम्मार्टि' इत्यत्र सम्मार्जनस्येवाखण्डार्थपरे वाक्ये विधेयान्तरस्याभावेन विशे- 223 सम्मार्गविधौ प्रत्युद्देश्यं वाक्यसमाप्तया वाक्यभेदापत्ते, प्रत्येकं ग्रहाणा- मेकत्वात्सम्मार्गवारणालाभाच्च । अतएवैकत्वविशिष्टग्रहोद्देशेनापि न सुम्मार्गविधिः; युगपत्सङ्ख्याकार के विभक्तया बोध्येते न तु सङ्ख्यां बोधयित्वा तद्विशिष्टस्य कर्मत्वादिकारकम् । नान्त्य एकत्वसम्मार्गयो- विधाने वाक्यभेदात्सर्वग्रहेषु सम्मार्गस्य वारयितुमशक्यत्व सम्मार्गस्य विधेयत्वेन एकत्वोद्देश्यग्रहे विशे णत्वायोगात् । समानश्रुत्युपात्तयोः सङ्ख्याकारकयोर्मिथ एवान्वयान्नामार्थे सङ्ख्यान्वयासम्भवात् । तस्मा- त्साधुत्वार्थमेकवचनामेति तृतीयप्रथमे स्थितम् । तथाच तद्वदुद्देश्य- विशेषणत्वाद्वितीयाभावो न विवक्षित इत्यर्थः । यतु – ग्रहैकत्वदृष्टान्ते- नाद्वितयित्वस्य वाक्यार्थाप्रवेशेऽपि ग्रहैकत्वस्येव तस्याबाधितप्रतीति- दुर्वारेति -- तत्तुच्छम् ; तात्पर्यविषयवाक्यार्थप्रविष्टेऽर्थे शब्दस्याप्रमा- णत्वेन प्रतीयमानस्याप्यद्वितीयत्वस्य द्वितीयत्वेन उत्प्रतीतबध सम्भवात् । अखण्डार्थबोधे सामग्रयभाव"नाद्वितीयत्वभानासम्भराच । त्वयेति । अद्वैत श्रुतेरननुवादित्ववादिनेत्यादिः । विशिष्टविषयेणेति । होममुद्दिश्य 1 ग्रहावशे-ग. " वाक्यार्थ प्रवेशे–स्व. 3 सामग्रयसत्वेना-ग, -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५०
दिखावट