पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः प्रमाणान्तरप्राप्तया, यथा वायुक्षेपिष्ठत्वादौ, उत तबिरोधित्वेन; यथा आत्मवपोत्खननादौ, उतोद्देश्यविशेषणत्वादिना; यथा ग्रहैक 222 शुक्तिसाक्षात्कारो न रूप्यभ्रमानिवर्तक इति वाच्यम्; श्रवणाद्यजन्य- स्यापातज्ञानस्याद्वितीयत्वादिपरामर्शशून्यस्य वा द्वितीयत्वाद्युपलक्षितस्व- रूपज्ञानस्याप्रमात्वेना शक्यमानत्वादनिश्चयेन' सद्वितीयत्वादिभ्रमानिवर्त- कत्वात्, परैरप्यद्वितीयत्वादिनिश्चयस्योक्तभ्रमनिवृत्तिप्रयोजकत्वाङ्गीका- रात् । अखण्डवाक्यार्थानुकूलत्वेन महातात्पर्यस्य परं तत्रायुक्तत्वात् । अतएव दूरस्थसन्निकर्षादिजन्यः शुक्तयादिसाक्षात्कारो न भ्रमनिवर्तकः ; सद्वितीयत्वादिभ्रमानिवृत्तौ च विरुद्धधर्मयोगेन जीवब्रह्मणोरैक्यानिर्णय इति तन्निवृत्त्यावश्यकत्वादिति ध्ययम् || १ तद्विरोधेन प्रमाणान्तरविरोधेन । क्षेपिष्टत्वेति । क्षिप्रकारित्वे- त्यर्थः । वॅपात्खननादौ शरीरान्तरस्थद्रव्यविशेषरूपवपानिष्कासना हौ । उक्तं पर्थवादाधिकरणे-वायुर्वै क्षेपिष्टेत्यादेः स प्रजापतिरात्मनो वपा- मुदखिददित्यादेश्च, न स्वार्थता पर्यमिति । ग्रहैकत्वादाविति । ज्योतिष्टोमेश्रुते “दशापवित्रेण ग्रहं सम्माष्टि" इत्यादौ ग्रहैकत्वादि विवक्षितं न वेति संशये, श्रुतस्याविवक्षाबीजाभाद्विवक्षितमिति प्राप्ते ग्रहस्य कर्मत्वादपूर्वसाघनत्वेन तमुद्दिश्य सम्मार्गरूप संस्कारविधानात् प्रतिप्रधानं संस्कारावगमात्सर्वे ग्रहाः सम्मार्जनीयाः । यदि हि यागे पशुरिव सम्मार्गे ग्रहो गुण: स्यात्तदा प्रयोजनाभावात्प्रतिगुणं न प्रधान- मावर्तनीयमिति सङ्ख्यापेक्षायां पश्वेकत्ववद्ग्रहैकत्वं विवक्षेत । प्रयो- जनानुरोधेन तु प्रतिग्रहं गुणीभूतसम्मार्गावृत्तिसिद्धौ न परिच्छेदकत्वेन पेक्षेति नानाकांक्षितमुद्देश्यविशेषणसंख्यादि विवाक्षतम् । किंचै- केत्वादेरुद्देश्ये विधेये वा निवेशः । नाद्यः; ग्रहमेकत्वं चोद्दिश्य 1 दनिश्चयत्वेन – क. ख. 2 स्वार्थे ता-ग.