पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] . प्रतिकूलतर्कनिराकरणम् नच – परोक्षज्ञानं श्रवणात्, अपरोक्षं तु नियमादृष्टादिति- युक्तम् ; श्रवणादिविधौ परोक्षज्ञानप्रवाहरूपनिदिध्यासनसा- ध्यापरोक्षस्यैव हशिनोद्देश्यत्वात्, त्वन्मते परोक्षज्ञांने 193 13 - , प्रवृत्तेस्तादृशदृष्टफलमेवावघातादिप्रयोजकम् ; न तुक्तापूर्वजनका- पूर्वविशिष्टोद्देशेन पश्चात्कल्प्यमानस्यावघातादिविधेर्विषयभूितमदृष्टफल- मित्युक्तम् । दृष्ट फलबाघात्कृष्णलादाववघातादिबाघः । यत्तु नियमा- दृष्टेति नियमजन्यादृष्टेत्यर्थ इति व्याख्याय नियमप्रयोजनापेक्षया कल्प्यत्वान्नियमजन्यमुच्यत इत्युक्तिः, तच्छोभते ; नियमप्रयोजना- पेक्षया कल्पेत्यर्थ इत्येव व्याख्यातुमुचितत्वात् । अपूर्वस्येवेति । आमेयाद्युत्पत्यपूर्वस्येवेत्यर्थः । यत्तु परमापूर्वे यथावघातादिजन्यनि- यमादृष्टसाध्यत्वं न तु बैतुप्यादौ तथा मुक्तौ श्रवणादिनियमादृष्ट- सांध्यता न तु साक्षात्कार इति व्याख्यानम्, तन्न अवधातादेरा- मेयादिजन्यपरमापूर्वथत्वादाज्यादिषु सङ्कर इत्याशक्य आमेयामीषोमीयै- न्द्रामीयोत्पत्यपूर्वार्थत्वादाज्यादेरामेयादिद्रव्यत्वाभावान्न तेषु तस्य सङ्कर इति तृतीयप्रथमीये " तेषामर्थेन सम्बन्ध " इत्यधिकरणे सिद्धान्ति- तत्वात् । अवघातादिनियमापूर्वस्याप्याग्नेयाद्युत्पत्यपूर्वार्थत्वादिति ध्येयम् । विध्ययोगादिति । मुक्तौ तु तादृशोपायान्तरं प्रसक्तमिति पराभि- मानः । वस्तुतो मुक्तिः श्रवणाद्यधीन साक्षात्कारेणैव साध्यत इति तस्यामपि श्रवणादिनिरपेक्षोपायान्तरमप्रसक्तम् । दुःखोच्छेदप्रयोज- कत्वादिसामान्यरूपेण मुक्तौ तर्कशास्त्रादिश्रवणसाध्यात्मज्ञानमिव वक्ष्य- माणरीत्या सामान्यरूपेण साक्षात्कारेऽपि तत्प्रसक्तमिति न सम्भव- दुक्तिकमिदं परवाक्यमिति बोध्यम् । दृशिनेति । साक्षात्कारस्यैव निदिध्यासनफलत्वात्तदुद्देशेनैव निदिध्यासनविधानात् श्रवणमनने अपि 1प्युक्तदृष्ट-क. स्व. 2 कल्प्येत्यर्थ इनि भवितुमुचितम्. ADVAITA. VoL. II