192 सव्याख्यायामद्वैत सिद्धो [प्रथमः शुक्तयादिज्ञानं विना निवर्तते । देवतादर्शनादिना तु प्रायश्चि- तसमकक्ष्येण दुरितस्य कारणात्मनावस्थानमात्रं क्रियते, न तु शुक्तिज्ञानेन रूप्यस्येव निवृत्ति:; अधिष्ठानाज्ञानरूपोपादान- कस्यारोपितस्य तनिवृत्तिं विना निवृययोगात् । अज्ञाननि- वृत्तिश्वाधिष्ठानज्ञानादेवेत्युक्तं प्राक् । श्रवणादिनियमादृष्टं च न मुक्ति प्रति कारणम्, किंतु ब्रह्मापरोक्ष्यं प्रति । नन्ववघातसाध्यवै- तुष्यान्यापूर्वस्येव श्रवणादिसाभ्यापरोक्ष्यान्यमुक्तेरेव तत्साध्य- त्वम्; अन्यथा श्रवणादिनियमादृष्टसाध्ये साक्षात्कारे श्रवणनिरपे- क्षस्यापायान्तरस्याप्रसक्तया तत्प्रसक्तयधीननियमविध्ययोगात् । तत्वेन; तत्राह देवतादर्शनादिनेति । निवृत्तिरिति । बाधरूपे- त्यादिः । निवृत्ययोगात् बाघायोगात् । श्रवणादिनियमादृष्टमिति । ! श्रवणायाश्रितनियमेन जन्यादृष्टमित्यर्थः । अवघातादिमात्रस्य विधे- यत्वे आक्षेपादेव तस्य वैतुष्यादिसाधनत्वस्य प्राप्तत्वादवघाताद्याश्रित- नियमस्यादृष्टार्थतया विधेयत्वात् । अतएव दृष्टफलकावघातादेः कृष्ण- लादौ बाघात्तदाश्रितनियमानुष्ठानलोपः । अथवा नियमतात्पर्य कवि- घिविषयश्रवणादिजन्यादृष्टमित्यर्थः । यद्यपि हि वैतुष्यादिफलसाधनस्व- मवघातादेराक्षेपादेव लधुं शक्यम्, तथाप्याक्षेपप्रवृत्तेः पूर्व शीघ्रप्रवृ तया प्रत्यक्षश्रुत्योक्तफलार्थतयाऽवघातादि विधीयते । तेनाक्षेपप्रवृ- त्तिप्रतिबन्धाद्दलनादिनिवृत्तिफलकावघातादिनियमधीरूपफलसिद्धिः । ता- दृश नियमधीरूपफलकस्याप्यवघातादेर्यदि वैतुष्यादिद्वारकप्रदेयनिष्पत्य- धीनयागनिष्पत्तिमात्रद्वारा यागीयापूर्वसिद्धिः फलम् ; तदा तादृशा- वघातादिविधिर्व्यर्थः ; दलनादिनाप्युक्तयागनिष्पत्तिरूपद्वारसम्भवात् । अतोऽदृष्टद्वारापि यागीयापूर्वसिद्धिः फलमिति कल्प्यते; तथापि यागी- यापूर्वप्रयोजकवैतुष्यार्दिदृष्टफलाव शिष्टोद्देशेन प्रथमतोऽवधातादिविधि-
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२१
दिखावट