पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

180 सव्याख्यायामद्वैतसिद्धौ [प्रथमः , तद्यत्राधिष्ठानं स्वतो नापरोक्षम्, यथा शुक्तयाद्यवच्छिन- चैतन्यम्; तत्र तदपरोक्षार्थ देहेन्द्रियाद्यपेक्षा, प्रकृते चाविद्या- वच्छिन्नं चैतन्यमधिष्टानम्, तत्र चैतन्यस्य स्वप्रकाशत्वेना- विद्यायाश्च तदद्भ्यस्तत्वेन तेनैव साक्षिणापरोक्षत्वात्कुत्र देहेन्द्रि- याद्यपेक्षा ? अथैवं प्रलये देहेन्द्रियाद्यभावेऽप्यज्ञानसद्भावेनान्त:- करणाध्यासप्रसङ्गः, न; तदा देहेन्द्रियादिसर्जनविलम्बहेतु- -

, त्वेन भ्रमत्वं ते स्वतः स्यात्, अतएव शाबरवाक्ये दुष्टकरणजन्यत्वं

  • · मिथ्यात्वेन ज्ञेयत्वं च समुच्चितमप्रमात्वप्रयोजकमित्यर्थ इति - चेन्न

भावानवबोधात् । यथाहि तार्किकमते जन्यताघटितं प्रमात्वं गुण- जन्यतावच्छेदकं नित्यसाधारणस्यातत्वात् तथा मन्मते भ्रमत्व- मपि तादृशदोषजन्यतावच्छेदकं तत एव । नच- तावता तस्य स्वत- स्त्वम् । शाबरवाक्यं तु नोभयस्याप्रमात्वप्रयोजकत्वपरम् ; चरमस्यैव तत्सम्भवादाद्य वैय्यर्थापत्तेरनादिसाधारणत्वाच्च । दुष्टकरणजन्यत्वं तु भ्रमत्वस्य जन्यत्वघटितस्य दोष प्रयुक्तत्वज्ञापनद्वारा बौद्धसम्मतस्य भ्रमत्व- स्वतस्त्वस्य निरासाय | यत्त्व विद्या कारवृत्तरविद्यारूपविषयजन्यत्वे प्रमात्वा- पत्तिरिति, तन्न ! अनुभूयमानरक्तत्वादेः स्फटिकादावारोपे व्यभिचारेण विषयजन्यत्वस्य प्रमात्वाव्याप्यत्वात् । कुत्र देहेति । न च - अधिष्ठा नान्य एव भ्रान्तो वाच्यः, स च देहेन्द्रियादिमानेव, अविद्यावच्छिन्न- चैतन्यं तु नाधिष्ठानान्यदिति देहेन्द्रियादि विना कथमन्तःकरणाध्यास इति – वाच्यम्; कौन्तेयस्य स्वस्मिन् राधेयत्वम्र मेऽन्तःकरणावच्छिन्न- चित्येव स्वाध्यासपक्षे चाधिष्ठानस्यैव भ्रान्तत्वस्वीकारादविद्यावच्छिन्न- चैतन्यमधिष्ठानमित्यत्राधिष्ठानपदम्याधारपरत्वाच्छङ्काऽनुत्थानाच्च । मूली- भूताविद्याविषयो मुख्याधिष्ठानम्, तच्च पूर्णानन्दरूपमेव । यत्तु तमः- 1 घटितदोष-क. ग. - •