सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः]
181
प्रतिकूलतर्कानिराकरणम्

नैव तद्विलम्बसम्भवात्, अन्यथा तदा देहेन्द्रियादिकमपि कुतो नोत्पद्येत? नच – दोषादीनामध्यस्तत्वेन तदभावस्य


प्रकाशवदविद्याचितोर्नाश्रयाश्रयित्वमिति – तन्न; चितो वृत्त्युपहिताया एव प्रकाशस्थानीयत्वात् । कुतो नेति । नच-भूतादिविलम्चेन देहादि- विलम्बो युज्यते, अविद्याम त्रमूलकस्तु मनोध्यासः कथं विलम्बत इति - वाच्यम् ; देहादेरिव मनसोऽपि भौतिकत्वात्

 ननु – भूतोत्पत्तिविलम्बोऽपि कुतः ; ईक्षणाभावादिति चेत्सोऽपि कुत इति चेत्, कस्तवाभिप्रायः ? वस्तुगत्या यत्साक्षिण[] ईक्षण जायते तत्पूर्वक्षणेष्वपि तत्कारणाविधादिसत्वात्तदापत्तिरिति चेत्कोऽयं न हीक्षणस्याश्रयस्तत्पूर्ववृत्तिमान्[] मन्मते कश्चन क्षणः प्रसिद्धः, किंतु ईक्षणोत्पत्तिकालोत्तरं क्षणादिव्यवहारः । तर्हि स्वाधि- करणसमयध्वंसान धिकरणसमयसम्बन्धरूपोत्पत्तिः कथमीक्षणस्येति चेत्, यदधिकरणकालसामान्ये यत्कालवृत्तिध्वंसाप्रतियोगित्वम्, तस्य तत्काल - संबन्ध उत्पत्तिर्महाप्रलयस्येवेति ग्रहाण सामग्रीमत्क्षणं विना कथमीक्षण- रूपकार्योत्पत्तिरिति चेद्भ्रान्तोसि; सामग्रीमत्क्षणोत्तरक्षणत्वं हि कार्यस्य व्याप्यम्, न तु व्यापकम् व्याप्यमपि न कार्यमात्रस्य, किंत्वीक्षणा- न्यस्य । ननु – क्षणो नातिरिक्त पदार्थः, न वा स्वजन्यविभाग- प्रागभावावच्छिन्नक्रियामात्रम् ; किंतु स्ववृत्तिध्वंसप्रतियोग्यनाधारो वा स्ववृत्तिस्व पूर्ववृत्तियावत्पदार्थविशिष्टो वा । तथाचेक्षणपूर्वावस्थाया जग त्कामन।सूक्ष्मा[]वस्थावृत्तीक्षणरूपध्वंसप्रतियोगिन्या अनाधार[]त्वस्या(स्य)जगत्कामनासूक्ष्मावस्थायां सत्वात् । तद्वती सा क्षण: ।[] एवमुक्त- सूक्ष्मावस्थादियावदर्थविशिष्टरूपणेक्षणं [] स्वाश्रय इति चेदेवमपीक्षणपूर्व

  1. यत्क्षणे - ग. ख.
  2. वर्ती वा-स्व. ग.
  3. आकाशसूक्ष्मा-ग.
  4. त्वस्याकाश सूक्ष्मा-ग.
  5. एवमविद्या...पाक्तयावदर्थ-ग.
  6. विशिष्टत्वरूपेक्षणं - ग.