पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् 175 इत्यादौ व्यभिचारात् । 'रक्तः स्फटिक' इत्यादावपि द्रव्य- त्वादिना सादृश्यमस्तीत्यपि नः प्रधानमात्रवृत्तितया प्रागव- गतमध्याससमये चाधिष्ठानवृत्तितया गृहीतं यत्तदेव हि सादृश्यं विपर्ययप्रयोजक मिति त्वयापि वाच्यम्, न तु प्रागेव प्रधाना- धिष्ठानोभयवृत्तितया गृहीतम् तस्य संशायकत्वात् । द्रव्य- त्वादि च लोहितालोहितवृत्तितया प्राग्गृहीतमिति न विपर्यय- प्रयोजकम् । किञ्च सादृश्यं न स्वतो भ्रमकारणम्; मानाभावात्, किन्तु संस्कारोद्धोधेन सामग्रीसम्पादकतया, संस्कारोद्धोध भृङ्गारगतशुक्लजलादौ नीलत्वादिभ्रमे सोपाधिकत्वस्य शङ्कितुमशक्य- त्वात् । तत्र जपाकुसुमादिवत्स्वधर्मसङ्क्रामक रूपस्योपाषेरसम्भवात् । शुक्तयादौ रूप्यादिसादृश्याज्ञानकाले नीलभागावच्छिन्नसन्निकर्षादि- रूपाया विशेषदर्शनसामप्रयाः सत्वेन तयैव प्रतिबन्धाद्र याद्यध्यासानु - त्पत्तिसम्भवेन क्वापि भ्रमे सादृश्यज्ञानहेतुत्वे मानाभावाञ्च | प्रागवग- तमिति । प्रधानसम्बन्धितया यत्कदाचिदवगतं तस्यैव सादृश्यस्य शुक्लत्वादेः प्रधानसंस्कारोङ्कोषकत्वमिति तथावगतत्वमावश्यकं बोध्यम् । अध्याससमये अध्यासोत्पत्त्यव्यवहितपूर्वसमये । प्रागेव अध्यासोत्पत्त्य- व्यवहितपूर्वसमय एव । संशायकत्वादिति । प्रधानस्य लौहित्यादिमत्तयाऽ- घिष्ठानस्य स्फटिकादेहित्याद्यभाववत्तया गृह्यमाणत्वा दुभयवृत्तित्वरूप- साधारणधर्मत्व रूपत्वात्साधारणधर्मधीविधया तज्ज्ञानस्य संशयजनकत्वा- दित्यर्थः । तथा च – संशयसामग्रयां सत्यां न निश्चयरूपो भ्रम इति भावः। सादृश्यं सादृश्यज्ञानम्। संस्कारोद्बोधेनेति । उद्बोधश्च शक्तधु- त्पादनादिरूप इति भावः । अथवा न स्वतो भ्रमकारणमिति । स्वतः सादृश्यीत्वेन भ्रममात्रे कारणं नेत्यर्थः । संस्कारोद्बोधेन संस्कार- चरमसहकारित्वेन । सामग्रीति काचित्कभ्रमसामग्रीत्यर्थः । एवं च 1 धीविषयात्तज्ज्ञानस्य -ग. . 7