पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 सव्याख्यामद्वैत सिद्ध [प्रथमः घटाद्यपि भासयतीति तत्फलव्याप्यमित्युपेयते । यनिष्ठा च यदाकारा वृत्तिर्भवति तभिष्टं तदाकारमज्ञानं सा नाशयतीति नियमात्प्रमातृप्रमेयोभयव्यापिन्यपरोक्षवृत्तिः स्वावच्छेदेनाव- रणमपसारयति; प्रकाशस्य स्त्रावच्छेदेनावरणापसारकत्वदर्श- नात् । अतः प्रमात्रवच्छिन्नस्यासत्वावरणस्य प्रमेयावच्छिन्न- स्याभानावरणस्य चापसरणात् घटोऽयं मे स्फुरतीत्याद्यपरोक्ष- व्यवहारः | परोक्षस्थले तु इन्द्रिय सन्धिकर्षलक्षणद्वाराभावादन्तः-. करणनिस्सरणाभावेन विषयपर्यन्तं वृत्तेरगमनाद्विषयावच्छिन्न- प्रमेयचैतन्येन सह प्रमातृचैतन्यस्यैकवृत्युपारूढत्वाभावेना- परोक्षतयाऽभिव्यक्तयभावेपि प्रमातृप्रमाणचैतन्ययोरेकलालीभा- --- रागः प्रमात्रभेदश्च विषयचिति फलम् । तादृशफलसचन्धाच विषय- चतन्यं फलम्, तादृशचिदेव भात्यादेरर्थस्तत्प्रयोजकाचदेव साक्षात्करो- त्यादेरर्थः । एवंच घटं साक्षात्करोमित्यादौ फलीभूतस्य धात्वर्थताव- च्छेदकोक्तचैतन्यस्याश्रयत्वाद्धटादेः कर्मत्वमिति भावः । व्याप्यं आश्रयः ननु – परोक्षवृत्तिस्थलेऽप्यज्ञानं नष्टमित्यनुभवात्परोक्षभ्रमोच्छेददर्शना- याज्ञाननाशो वाच्यः, तथाच वन्हिमें न भातीति व्यवहारो न स्यादप- रोक्षश्रमोच्छेदश्च स्यादित्यत आह – यनिष्ठेति । उक्तसंश्लेषसंबन्धेने- त्यादिः । तनिष्ठं तदवाच्छन्नाश्रयताकम् । तदाकारं तदवच्छि- न्नविषयताकम् । स्वावच्छेदेन स्वावच्छेदकावच्छेदेन । स्फुरतीत्यादी - त्यादिना घटं साक्षात्करोर्मात्यादिसंग्रहः । घटो मे स्फुरतीत्यादावुक्ताज्ञा- ननिवृत्तिसंबन्धिचिद्रूपस्य स्फुरणम्याश्रयत्वं घटादौ विशेषणम् | प्रमातुस्तु तादृशनिवृत्तिप्रतियोगिन्यज्ञानादौ निरूपितत्वादिसंबन्धेन विशेषणत्वम् । सुखं मे स्फुरतीत्या दावपि सुखादावज्ञानविषयतानवच्छेदकत्वरूपोक्तनिवृ तिसत्वान्नानुपपत्तिः। घटं साक्षात्करोमीत्यादौ तूक्तमानरूपफलप्रयोजक-