पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 159. भेदेनामिव्यज्यते तमेव स एव जानाति नान्यं नान्यो वा । अत एवैकवृत्त्युपारूढत्वलक्षणै कलोलीभावापत्रं प्रमातृप्रमाणप्रमेय- चैतन्यं भवति । ततस्तदवच्छेदेनाज्ञाननिवृत्या भासमानं प्रमेय - चैतन्यमपरोक्षं फलमित्युच्यते । तत्स्वयं भासमानं सत्स्वाभ्यस्तं त्रयाणामौपाधि कमेन्दसत्वेऽपि । जानाति साक्षात्करोति । नान्यमिति सुखादिभिन्नमिति शेषः । तेन सुखादिसाक्षात्करणे वृत्त्यनपेक्ष गेऽपि न क्षतिः । नान्य इति । जीव इति शेषः । तेनेशस्य मनोवृत्यनपेक्षसाक्षा- त्कर्तृत्त्वेऽपि न क्षतिः । कथं भिन्नोपाधिकत्वेऽप्यभेदाभिव्यक्तिस्त त्राह -- अत एवेति । वृत्तिनिस्सरणादेवेत्यर्थः । भावापन्नमिति । तथाचोपाधीनां मिलनादमिलन प्रयुक्तो भेदो नश्यतीत्यभेदाभिव्यक्तिरिति भावः । फल- व्याप्यतारूपं साक्षात्कारकर्मत्वं घटादेरुपपादयति-तत इति । एकलोलीभावादित्यर्थः । तदवच्छेदेन घटादिविषयावच्छेदेन । निवृत्या भासमानं निवृत्यभिन्नस्य मासमानत्वस्याश्रयः | वृत्तेरज्ञाननिवृत्यर्थ- त्वपक्षान्यपक्षयोरा! जीवचिद्विषयचितोरनुपरागनिवृत्तिरूपो वृत्त्यादिद्वार- कोपरागः प्रमातृप्रमेयचितोरभेदश्चाज्ञाननिवृत्तिशब्दार्थो बोध्यः । तादृशा- नुपरागभेदयोर्भातीतिव्यवहारविरोधित्वात् । अपरोक्षं अपरोक्षशब्दबोध्यम् । फलमिति। निवृत्तेश्चैतन्यरूपत्वेऽप्युक्तनिवृत्तित्वेन वृत्तिप्रयुक्तत्वात्फलत्वम् । एकदेशनाशादिपक्षे ऽ प्युक्तविशिष्ट ज्ञान संबन्धस्याज्ञान विषयतावच्छेदक- त्वस्य वा विरहोऽज्ञाननिवृत्तिबाध्या | तस्य च वृत्तिप्रयुक्तत्वात्फलत्वम् । वृत्तेरज्ञाननाशत्वपक्षेऽपि तेन रूपेण वृत्तिप्रयुक्तत्वात्फलत्वम्' । अघि- करणमेव ध्वंसो ज्ञानमेव स्वप्रागभावनिवृत्तिरित्या दिमतेषु ज्ञाने नाज्ञानं नष्टमित्यादिप्रतीतेस्तथा वश्यं वाच्यमित्यायुक्तम् । वृत्तेजींव- चिदुपरागार्थत्वपक्षे जीवचिदभेदा भिव्यक्तयर्थत्वपक्षे च वृत्यादिद्वारकोप- 1 मिलनामिलन-ग. 2 फलवत्त्वपू-ग.