पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सब्याख्यायामद्वैतसिद्धौ [ प्रथमः साक्षाद्वा सम्बन्धि- , विलम्बेन विलम्बस्य वक्तुमशक्यत्वात् । तथाच चितः सर्वगतत्वेन सर्वसम्बन्धाद्रूपादिवङ्गुरुत्वादेरप्याश्रयद्वारा त्वात्प्रकाशापत्तिः ; वृत्त्युपरक्तचित्सम्बन्धस्यैव प्रकाशकत्वात्, ' असङ्गो ह्ययं पुरुषः' इति श्रुतिस्तु तत्कृतलेपाभावपरा, न तु सम्बन्धनिषेधिका; ' स यत्तत्र यक्तिचित्पश्यत्यनन्वागतस्तेन भवति' इति पूर्ववाक्यात्, 'यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्' इत्यादिस्मृतेश्चेति – चेन्न; प्रभाया रूपरसा- दिदेशगततमोनाशकत्वं तत्सम्बन्धायुज्यते, चैतन्यस्य तु स्व- . भावतोऽसम्बद्धत्वात्तदा कारवृत्त्या तदेकसम्बन्धस्योपादानात्कथ- मन्यावभासकत्व प्रसङ्गः ? स्वभावतो ह्यसङ्गत्वे 'असङ्गो ह्ययं पुरुषः ' इति श्रुतिः प्रमाणम् | नचैषा लेपाभावपरा; अकर्तुत्वप्र- तिपादनाय सम्बन्धाभावपरत्वात् । यथा चैतत्तथा व्यक्तमाकरे । प्रायभासकत्वेत्यर्थः । विलम्बेन अभावेन । विलम्बस्य गन्धा- यभास कत्वस्य । यदि स्वप्रतिबिम्बवद्वात्तिसंश्लेष एव चितो भासकता- नियामक सम्बन्धः तदाह — आश्रयद्वारेति । यदि तत्संसृष्ट- वृत्त्युपारूढचितः सर्वगतत्वनियामकसम्बन्धो भासकस्तदाह – साक्षा- द्वेति । आश्रयाद्वारा वेत्यर्थः । तेन जीवस्थ गुरुत्वादौ तादात्म्या- भावेऽपि नासङ्गतिः । आकरे बृहदारण्यकभाप्यादौ । उक्तं हि तत्र - यदि स्वाभाविकं कर्तृत्वं स्यात्तदा आत्मनो मोक्ष एव न स्यात् अतो 'दृष्दैव पुण्यं च पापं चे' त्यादिना कर्तृत्वाभावप्रतिपादनेन स्वभावतोऽक-


१ 6 तेति ज्ञापितम् ध्यायतीव लेलायतीव' इति च पूर्वमकर्तृत्वमुक्तम्, • तत्र चासङ्गत्वं हेतुः, कारकसङ्गिनो हि मूर्तस्य कर्तृत्वं नान्यस्येति । अत एव व्यासः- ' शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ।' इति । 142 3 C