पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 141 - , प्रकाशकत्वम् ? न च प्रभावन्नियमः; वैषम्यात्, तथाहि — प्रभायां तमोविरोधित्वं रूपं प्रतीव गन्धादीन् अत्यपि समम् ; न हि सा गन्धदेशस्थं तमो न निवर्तयति, न चाज्ञाननिरोधि- त्वलक्षणं प्रकाशत्वं रूपं प्रत्येव, न तु रसादीन् प्रतीति - वाच्यम् ; अज्ञाननिवर्तकत्वस्य वृत्तिभिन्नेऽनङ्गीकारात्, प्रभाया रूपग्राहकचक्षुःसहकारित्ववत् गन्धादिग्राहिघ्राणादिसहकारि- त्वाभावेऽपि चितो ग्राहकान्तरासहकारित्वेन तद्वत्सहकारि-

--- रसादावपि सत्वादिति भावः । रूपं प्रत्येवेति । रूपावच्छिन्नमज्ञानं चाक्षुषवृत्त्यारूढाचिन्निवर्तयति न तु रसाद्यवच्छिन्नमज्ञानमित्यर्थः । तथाच चिदुपरागसत्वेऽपि रसादावज्ञानसत्त्वान्न प्रकाश इति भावः । ं वृत्तिभिन्ने इति । न च – यदीया ज्ञाननिवर्तकवृत्त्युपारूढा चित्तदेव प्रकाशयतीति -- वाच्यम्; तथा सति गन्धाकारघ्राणजवृत्तेरिव रूपाद्या- कारचाक्षुषादिवृत्तेरप्यज्ञान निवर्तकत्वं वाच्यम् चाक्षुषादिकाले गन्धादे- रिव प्राणजादिकाले रूपादेरप्रकाणम्य तुल्यत्वात् । तथा च वृत्तः सर्वत्राज्ञाननिवृत्त्यर्थत्वम्वीकारे । द्वितीये त्वावरणाभिभवार्था. वृत्तिरिति सिद्धान्तव्याघातः । आद्येऽपि पक्ष आवरणाभिभवार्थत्वेन द्वितीये- त्वित्यवधारणासङ्गतेः । अतएव वृत्यवच्छिन्नचितोऽज्ञान निवर्तकत्वानी- कारेऽपि न निस्तारः । नचाद्यपक्षे यथा ब्रह्मणि वृत्तेरज्ञाननिवृत्त्यर्थकता, तथा प्रतिनियतेन्द्रियग्राह्यरूपादावपि सत्ताद्रव्यत्वगुणत्वादा तु न तथति ब्रह्मातिरिक्ते सर्वत्र चिदुपरागार्थत्वाद्दितीयपक्षं च जीवस्यांपा दानत्वे तदभावान्त्रोक्तासङ्गतिरिति वाच्यम्; तथापि यदीयाज्ञाननिवर्त- केत्यायुक्त प्रकारम्वीकारे गौरवात् । ननु यथा प्रभा चक्षुःसहकारित्वात्तद्गा ह्यस्यैव भासिका तथा चिदपि स्यात्तत्राह - प्रभाया इति । सहकारित्वेति