पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"सव्याख्यायामद्वैतसिद्धौ [ प्रथमः व्यप- , 1 नाधिष्ठानकोटौ प्रविशति तदेव च जीवशब्देन च दिश्यते उपाधिविशेषात्, तथाच जीवचैतन्यस्य दृक्तेऽपि दृश्या- ध्यासो नानुपपद्म इति – वाच्यम्; शुद्धचैतन्यस्यासंसारमावृत- त्वेन जगदान्ध्य प्रसङ्गादिति – चेन; मूलाविद्यानिवृत्त्यभावेन सर्वत आवरणाभिभवाभावेऽपि घटाद्यवच्छेदेनावरणाभिभवादा- न्ध्यविरहोपपत्तेः । ननु तींदानीमपि ब्रह्मस्फुरणे चरमवृत्ति - वैय्यर्थम् ; अधिकभागेऽपि तस्य स्फुरणात्, न ह्यखण्डार्थवेदा- न्तजन्यायां वृत्तौ भावोऽभावो वा विशेषणमुपलक्षणं वा प्रकार: प्रकाशत इति – चेन्न; उपाध्यविषयकब्रह्मस्फुरणस्य चरमवृत्ति- प्रयुक्तत्वेन तस्याः साफल्यात्, प्रकारास्फुरणं तु तस्या भूषणमेव ; इदानीन्तनस्फुरणस्य सप्रकारकत्वेनोपाधिविषयकत्वात् । 'एकघै- वानुद्रष्टव्यम्' इत्यादिश्रुतिबलात् स्वसमानविषयज्ञानादेव चा- ज्ञाननिवृत्तेरखण्ड चिन्मात्रज्ञानस्यैव मोक्षहेतुत्वावधारणात् । न चान्तःकरणावच्छिन्नचैतन्यस्य जीवत्वे सुषुप्तिदशायां तदभावेन हेतुत्वावधारणादिति। नन्विदमयुक्तं सप्रकारकज्ञानस्यैव संशयादिविरो- धित्वात्, एकघैवेत्यादिश्रुतिर्ज्ञानानन्दादिविरोध्यज्ञानदुःखादिमत्तया ब्रह्म- ज्ञानं न मोक्षहेतुरित्येतत्परा | अन्यथा प्रकारार्थधाप्रत्ययासङ्गतेः । निवर्तकत्वे तु निवर्त्त्याज्ञानसमानविषयकत्वमपेक्ष्यते, न तु तदनतिरिक्तविषयक त्वम् ; घटपटाविति समूहालम्बनम्य घटाज्ञानानिवर्तकतापत्तेरिति चेत्, भ्रान्तोऽसि ; निष्प्रकारकस्यापि व्यावृत्ताकारतया संशयादिविरोधित्वम् । सा च द्वेधा विशेषणादुपलक्षणाद्वेत्यादिकं हि पूर्वमाचार्यैरुक्तम्, उप- पादितं च नितरामस्माभिः । एकधेत्यादिश्रुतिस्तु नोक्तार्थपरा ; ताह- शज्ञानस्य मोक्षहेतुत्वाप्रसक्तेः किंतु न्यायसिद्धस्याज्ञानतत्कार्याविषयक ज्ञानमोक्षहेतुत्वस्यानुवादरूपा सती विधेयाखण्डात्मस्तुतिपरा । अन्यथा

1 भानेडाप. 138 0