छेदः] प्रतिकर्मव्यवस्थोपपत्तिः नापि तस्मिं चैतन्योपरागयोग्यतापादकत्वं तदज्ञानाभिभावकत्वं वा; उभयोरपि तदाकारत्वप्रयोज्यत्वेन तत्त्वायोगात्, नापि घटादिवत् पृथुबुनोदराद्याकारत्वम्; साकारवादापातात्, संस्थान हीनजातिगुणादिवृत्तेर्निराकारत्वप्रसङ्गाच्च, घटपटाविति समूहाल- म्बेन विरुद्वनानांकारत्वापत्तेश्चेति चेन्न; अस्तीत्यादितद्विषयकव्यव- हारप्रतिबन्धकाज्ञाननिवर्तनयोग्यत्वस्य, तत्सन्निकृष्टकरणजन्यत्वस्य 135 प्रयोजयति न ज्ञातत्वेनेति भावः । आपन्नजाड्येति । प्रमातृचैतन्यानु- परागेत्यर्थः । आपादकेति । सम्पादकेत्यर्थः । तस्मिंश्चैतन्यस्य भास- कतानियामको यः सम्बन्धस्तद्धटकत्वम् । अभिभावकत्वम् अभि- भवप्रयोजकतावच्छेदकरूपवत्त्वम् । प्रयोज्यत्वेन घटितत्वेन | स्वप्र- तिबिम्बवद्वत्त्याकारत्वस्यै 'वोक्ताभिभवप्रयोजकतावच्छेदकत्वात्तदाकारत्व- म्योक्तरूपत्वे आत्माश्रय इति भावः । अस्तीत्यादिना सन्निति व्यवहारो ग्राह्यः । प्रतिबन्धकेति । अनुत्पत्तिनियतेत्यर्थः । तेना- ज्ञानाभावत्वेन कारणत्वाभावान्नासङ्गतिः । अस्तीत्यादिव्यवहारेऽसत्वा- पादकाज्ञानाभाव विशिष्टचैतन्यस्य विषयतया तादृशाज्ञानस्योक्तव्यवहारा- नुत्पत्तिनियतत्वमिति भावः । असत्वापादकाज्ञाननिवृत्तिप्रयोजकता- वच्छेदकं यद्वत्तिनिष्ठं विषयप्रतियोगिकं रूपं तद्वत्त्वमिति पर्यवसितम् । तत्सनिकृष्टेति । परोक्षस्थलेऽपि धूमादिज्ञानेन बयादिनिरूपित- व्याप्यत्वसम्बन्धिज्ञानत्वादिकं वहयादिसन्निकृष्टत्वम् । यद्यपि सम्ब- न्धित्वं सामान्यतोऽतिप्रसक्तम् ; व्याप्यत्वाद्यप्रकारकज्ञानेऽपि कम्यचित्स- म्बन्धस्य सत्वात्, तथा व्याप्यत्वप्रकारकधीनिष्ठतत्तदसाधारणसम्बन्धा- नामन्यतमत्वेनाखण्डेन निवेशान्न दोषः । अतएव रूपाद्याकारचाक्षुषादे 1 कारसंबन्धन्वात्तदाकारवृत्तिज्ञानस्यै-ग. t
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६४
दिखावट