पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संव्याख्यायामद्वेतसिद्धौ [प्रथमः - - साक्षात्सम्बद्धं, प्रकाशस्य च स्वयं भासमानस्य स्वसम्बद्ध- • सर्वभासकत्वमपि क्लृप्तमेव; एतदनभ्युपगमे कल्पनान्तरगौरवा- पत्तेः । तच्चानाभव्यक्तं निर्विकल्पकरूपमाच्छादितदीप- वन्न प्रकाशकमिति तदभिव्यक्तिरपेक्षिता । तच्च परोक्षस्थल वृत्त्यवच्छेदेनैवाभिव्यज्यते । अपरोक्षस्थले तु वृत्तिसम्पर्कादाव- रणाज्ञानाभिभवे विषयोऽ'भिव्यज्यते ; वृत्तेर्विषयपर्यन्तत्वात्। न च परोक्षस्थलेऽप्येवं प्रसङ्गः ; द्वाराभावेनान्तःकरणनिर्गत्यभावात् । ननु - वृत्तेस्तदाकारत्वं न तावत्तद्विषयत्वम् ; त्वयैव निरासात्, विषयेष्वाध्यासिकसम्बन्धाभावेऽपि न क्षतिः । यत्र विषयोऽध्यस्तस्तस्य प्रकाशकाभेद इत्युक्तनियमाप्रच्यवाहितीय पक्षोऽपि युक्त इत्याह -- प्रकाशस्येति । भातीतिव्यवहारविरोधिनाशकस्येत्यर्थः । तत्वं च तमो- नाशकत्वादालोकस्येवाज्ञानाभिभावकवृत्त्यवच्छिन्नत्वाचितोऽपीति भावः । स्वयं भासमानस्योक्तविरोधिशून्यस्य | एवकारः शेषः । कल्पनान्त- रेति । प्रयुक्तेति शेषः । भातीति व्यवहारे विषयसंश्लिष्टवृत्तिप्रतिबिम्बि- तचितः प्रयोजकत्वे घटादौ तत्सम्भवति न तु सुखादावित्यनावृत- चितोऽपि तद्वाच्यमिति कल्पनान्तराद्गौरवम् । अथ चावृतप्रकाशस्य ' भास- कत्वेऽपूर्वकल्पना गौरवमिति भावः । नन्वभिव्यक्तचितः प्रकाशकत्वे घटादेरज्ञातत्वेन साक्षिभास्यता न स्यात्तत्राह - तच्चेति । प्रकाशक- चैतन्यं चेत्यर्थः । निर्विकल्पकरूपमिति । तार्किकादिसिद्धनिर्वि- कल्पकतुल्यमित्यर्थः । तुल्यता च जानामीति व्यवहारा विषयत्वेन । आच्छादितेति । यथा सूक्ष्मवस्त्राच्छादितो दीपोऽन्धतमसविरोध्यप्य- वतमसाविरोधित्वाद्दव्यत्वादिरूपेण व्यवहारस्य प्रयोजको न तु रूपपरि- माणविशेषवत्त्वेन व्यवहारस्य तथा चैतन्यमावृतमज्ञातत्वेन व्यवहारं १ 1 विषये 2 प्रच्यवः । द्वितीय -ग. 3 चावृत्तप्रकाशस्य -ग. 134 4 4 व्यव्हार-ग.