पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः साथ। किश्च वृत्तेर्जडत्वादेव न प्रकाशकत्वम् । न च वृत्ता- वन्तः करणवृत्यापि स्वप्रकाशत्वं ज्ञातत्ववदिति – वाच्यम्; स्वप्रकाशात्मसम्बन्धेनैव तस्याः प्रकाशत्वोपपत्तौ तत्स्वप्रका- शत्वे मानाभावात् । किञ्च घटं जानामीत्यनुभूयमानसकर्मक- वृत्यन्या संवित् घटप्रकाशरूपा घटः प्रकाशत इत्याकारकानु- भवसिद्धैव । न च -- करोति, यतते, चलति, गच्छतीत्यादा- वेकार्थत्वेऽपि सकर्मकाकर्मकस्वभावत्वदर्शनादत्राप्येकार्थत्वेऽपि तथा स्यादिति वाच्यम्; तत्राप्येकार्थत्वाभावात् । अनुकूल यत्नो हि कृञ्धात्वर्थः, यत्यर्थस्तु यत्नमात्रम्, एवं गम्यर्थ उत्त- रसंयोगफलकः स्पन्दः, चलत्यर्थस्तु स्पन्दमात्रम् ; तथाचैकार्थ- कत्वे कुत्रापि न सकर्मकत्वाकर्मकत्वव्यवस्था । न च त्वन्मते भावः । स्वप्रकाशात्मेति । आत्मस्वप्रकाशत्वं वक्ष्यते । भाष्यादिसिद्धा युक्तिश्च दर्शिता । किञ्च सुखादौ वृत्त्यकल्पनलाघवात्स्वप्रकाशात्मैव तत्रापरोक्षता । तथा च घटादावपि स एव सेत्यादि प्रपञ्चितमस्माभिः पूर्वम् । सकर्मकवृत्तीति । घटकर्मकवृत्तीत्यर्थः । घटप्रकाशति । घटकर्तृकप्रकाशेत्यर्थः । तथा चैकस्यां क्रियायामेकस्य कर्तृत्वकर्मत्व- योरेकस्याः क्रियायाः सकर्मकत्वाकर्मकत्वयोश्च विरोषादनावृतचिद्रूपा क्रिया घटकर्तृका स स्वापादकाज्ञानशून्या' चिद्रूपा ज्ञानक्रिया | तंत्रा- ज्ञानांशे घटस्य निरूपकतया विशेषणत्वाद्गौणः कर्मत्वव्यवहार इति मन्मतम् । स्वन्मते तु वृत्तिरेव घटकर्मिका वाच्येति तदन्या क्रिया घटकतृकावश्यं वाच्या । सा चानावृतचिद्रूपा, आत्मा सदा प्रकाशत इत्यादौ तथा क्लृप्तत्वादिति भावः । अनुकूलयत्नः कालसम्बन्ध- प्रयोजकयलः । कुत्रापि नेति । नन्विदमयुक्तम्; आख्यातपदभावना- 1 करणाकृत्स्यपि. 2 घटकर्तृका अस-ख. ग. 8 शून्यचिद्रूपा-क. ख. ग.