पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः - - विश्वसत्यत्वेन वा मिथ्यात्वेऽपि स्वप्नादिवदिन्द्रियसभि- कर्षानिरपेक्षतया वोपपत्तेः, व्यावहारिकत्वस्यापि भ्रान्ति- दैर्घ्यमात्रेणोपपत्तेश्चेति – चेत्, मैवम् ; प्रतीतिमात्रशरीरत्वस्य कल्पितत्वं न व्याप्यम्; दृग्दृश्यसम्बन्धानुपपत्यादिसहकृतो- क्तानुमानात्प्रपञ्चे कल्पितत्वे सिद्धे प्रत्यभिज्ञाबलाच्च स्थायित्वे तत्रैव व्यभिचारात् । न च - शुक्तिरूप्यादिप्रत्यभिज्ञासाम्यं प्रकृत- प्रत्यभिज्ञाया इति वाच्यम् ; प्रतीत्यविशेषेऽपि वणिग्वीथीस्थ- शुक्तिरूप्ययोः परीक्षितत्वापरीक्षितत्वाभ्यां स्थायित्वास्थायित्व रूपविशेषसम्भवात् । तथापि वा परोक्षवृत्तेरिवापरोक्षवृत्तेरपि प्रकाशत्वमस्तु, किं तदुपरक्त चैतन्येनेति – चेन; परोक्षस्थलेऽपि परोक्षवृत्त्युपरक्तचैतन्यस्यैव प्रकाशकत्वात् । अथ तत्राप्यप- • रोक्षैकरसचैतन्योपरागे विषयापरोक्ष्यप्रसङ्गः, न; विषयचैतन्या- भिव्यक्तावेव विषयस्यापरोक्ष्यम् । न च परोक्षस्थले तदस्ति; विषयेन्द्रिय सन्निकर्षाभावेन विषयपर्यन्तं वृत्तेरगमनात् अन्त- रेव तत्र धीसमुल्लासात् । अपरोक्षस्थले तु प्रमातृचैतन्याभेदा- भिव्यक्ताधिष्ठान चैतन्योपरागो विषयेऽस्ति, तत्र विषयस्य कर्म- कारकत्वात् । न च – वृत्तिगतविशेषादापरोक्ष्यम्; तत्र हि विशेषो विषयकृतदोमिति ब्रूमः | जातिकृतस्तु विशेषो न सम्भवति ; सोऽयमिति प्रत्यभिज्ञायां परोक्षत्वापरोक्षत्वयोः सङ्करप्रसङ्गात् अव्याप्यवृत्तित्वात् प्रमात्वादिना सङ्करप्रस- - इन्द्रियजमनोवृत्तिं विनापि स्वप्नवत्प्रत्यक्षो वास्विति भावः । परीक्षि- तत्वेति । मानान्तरसंवादाविसंवादेत्यर्थः । व्यावहारिकस्य व्यवहार- कालीनतादृश परीक्षितत्वेन व्यवहारकाले स्थायित्वसिद्धिः । प्रातीतिकस्य तुन मानान्तरेण संवादः | नात्र रूप्यमित्यादिबाधकेन विसंवादश्चेति , , 121