प्रतिकर्मव्यवस्थोपंपत्तिः अथ प्रतिकर्मव्यवस्थोपपत्तिः, ननु – विश्वस्याध्यासिकत्वे प्रातिभासिकंस्थल इव विष- येन्द्रिय सन्निकर्षाधीनायाः प्रतिकर्मव्यवस्थाया अनुपपत्तिरिति- चेन; वृत्ते: पूर्वमेव घटादीनां चैतन्येऽध्यासेन प्रातिभासिक- स्थलापेक्षया वैलक्षण्यात् । तथा हि - अन्तःकरणं चक्षुर्वत्तेजो- वयवि । तच्चेन्द्रियद्वारेण तत्संयुक्तं विषयं व्याप्य तदाकारं भवति । यथा नद्याधुदकं प्रणाड्या निस्सृत्य केदाराद्या- कारं भवति, सैव वृत्तिरित्युच्यते । तत्र जीवचैतन्यम- विद्योपाधिकं सत्सर्वगतमन्तःकरणोपाधिकं सत्परिच्छिन्न- परिच्छेद:] मिति मतद्वयम् । तत्राद्ये विषयप्रकाशकं जीवचैतन्यम् । द्वितीये ब्रह्मचैतन्यम् । आद्ये पक्षेऽपि जीवचैतन्यमविद्यानावृतमावृतं अथ प्रतिकर्मव्यवस्थोपपत्तिः. प्रतिकर्मव्यवस्थाया इति । कम्यचित्पुरुषस्यैव कश्चिदेव विषयो ज्ञानकर्मेति प्रतिनियतज्ञानकर्मव्यवस्थाया इत्यर्थः । चक्षुर्वदिति । तथाच यथा चक्षुस्तेजस्त्वात्प्रभाव'च्छीघ्रं सूर्यमण्डलादिसंयुक्तरूपेण परिणमते, तथा मनोऽपीति भावः । देहान्तस्तिष्ठदेव विषयेण संयुज्यते, न तु देहाद्विभक्तम् ; यथा नद्यां तिष्ठत्तदुदकमन्येनापि संयुज्यत इत्याशयेनाह – यथा नदीति | सर्वगतमिति । यथा गोत्वादिजाते- रुदयनायुक्तं सर्वगतत्वं स्वरूपसम्बन्धेन, तथा जीवस्यापि सर्वसम्बन्ध्य- विद्या प्रतिबिम्बत्वरूपं (वा) तस्य सर्वगतत्वं अविद्याकार्यगत परिच्छेदा- भावो वेति भावः । अनावृतमावृतं चेति । जीवस्य जगदुपादानत्व- पक्षे घटादिना तादात्म्यान्मन आदेखि घटादेरपि सर्वदा भातीति, - • 113 1 सूर्यादिप्रभाव -ग. 2 कृत-क. ख. ग. ADVAITA. VoL. II - -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४२
दिखावट