पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 95 सर्वाज्ञानसाधके साक्षिचैतन्ये तस्मिन्घटादेरध्यास इति काऽनु- पपत्तिः ? तदुक्तं सुरेश्वराचार्यैः- सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः । यदभ्युपगमादेव, तत्सिद्धिर्वार्यते कुतः ।। सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् । अज्ञातार्थावगमनं त्वदुक्ते तन युज्यते ॥ स्वतस्सिद्धोऽथवासिद्धो देहादिस्ते भवन् भवेत् । प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते || प्रमाणान्यन्तरेणापि देहादिवे प्रसिध्यति । वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम् || स्वतोऽसिद्धे प्रमेये तु नासतो व्यज्जिका प्रमा । नाभिव्यनक्ति सविता शशशृङ्गं स्फुरन्नपि ॥ इति ॥ त्वम्, तथा म्फुरणं ज्ञानं, घटस्य स्फुरणं ज्ञानं, पटस्फुरणं ज्ञानमित्या- दावप्येकस्या एव म्फुरणज्ञानव्यक्तविषयत्वमित्यादेरुक्तत्वादिति दिक् ॥ सर्वाज्ञानसाधक इति । यद्यप्यज्ञानाकाराविद्यावृत्तिरभ्युपग- म्यते, तथापि सा न ज्ञानमपि तूक्तरीत्या चैतन्यमिति भावः । ननु – प्रमोत्पत्तेः पूर्वमप्रतीतमप्यज्ञातघटादिकं पश्चादनुमानादिना प्रतीयमान- त्वान्नासत्, अन्यथा कदाचित्केनचिदप्रतीतम्यासत्वे सर्वमसत्स्यात् ; नच - सन्निकर्षतज्जन्यज्ञानादौ हेतुताग्राहकान्वयव्यतिरेकज्ञानमज्ञातता- कालीनघटान्वयज्ञानं विना न सम्भवतीति वाच्यम्; तादृशज्ञानस्यानु- मित्यादिरूपस्याभानापादकाज्ञानकाले सम्भवादत आह - नाभिव्यन- क्तीति । शशशृङ्गाभिव्यक्तिमुद्दिश्य न यतत इत्यर्थः । तथाच ' जगद- भिव्यक्तिमुद्दिश्य प्रवृत्तौ सवितुर्जगत्तमोज्ञानमिव प्रमेयाभिव्यक्तिमुद्दिश्य - - 1 तथा - क.