पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 सव्याख्यायामद्वैत सिद्धौ [प्रथमः जानातीति न स्यात्, अविद्यामात्रे च निवेशिते जीवो जानातीति न स्यात्, अतस्तदन्यतरन्निवेशितम् । यदवच्छिन्नविषयकत्वयद्विषयक- त्वान्यतरवतोऽज्ञानस्यानिरूपकं यन्मनोऽविद्यान्यतरत्तद्वच्छिन्नं चैतन्यं तत्साक्षात्कारः । लक्षणद्ववेऽपि प्रथमयत्पदाभ्यां चरमतत्पदार्थस्य विषयस्य ग्रहणम् । घटादौ वृत्त्यभावकाले तदवच्छिन्नचिद्विषयक- मसत्वापादकमज्ञानं मनोऽवच्छिन्नचिदाश्रितमिति तदा न तस्य ज्ञानम् । तत्र प्रत्यक्षवृत्त्यभावकाले तदवच्छिन्नविषयकमभानापादकमज्ञानं मनो- निरूपितमिति तदा न तस्य साक्षात्कारः | पल्लवाज्ञानास्वीकारे स्वपरि- णामवृत्तिज्ञानाविषयत्वसमानाधिकरणस्य स्वतादात्म्यवदज्ञानावच्छेदक- त्वस्याभाववत् यत्तत्सम्बन्धिनावच्छिन्नं चैतन्यं तस्य ज्ञानम् । सम्बन्धि शब्देन यद्गाह्यं तदेव स्वपदाभ्यां ग्राह्मम् । तच्च जीवज्ञानस्थले मनः, ईशज्ञानस्थले त्वविद्या । वृत्तिज्ञान विषयत्वस्थले वृत्त्यनवच्छेदकत्वं निवेश्य साक्षात्कारो निर्वाच्यः । इन्द्रियकरण कवृत्तिरेव विषयावच्छिन्नेति परोक्ष- वृत्तिमादाय न लक्षणसमन्वयः । अज्ञानावच्छेदकत्वं चाज्ञानविषयत्व- तदवच्छेदकत्वान्यतरवत्त्वम् । तेन ब्रह्मण्यज्ञाना वच्छेदकत्वाभावेऽपि वृत्यभावकले ब्रह्म जानाभीत्यादिर्न व्यवहारः | शब्देनैव ब्रह्मणोऽपरोक्ष- त्यमतेऽपि शाब्दवृत्त्यवच्छेदकत्वस्यापि ब्रह्मणि पूर्वमुक्तत्वात्तदनङ्गी- कारेऽप्युक्तान्यतररूपविशेष्याभावसत्वाच्च ब्रह्म साक्षात्करोमीत्यादौ नानु- पपत्तिः । एकमनोवृत्त्यविषयस्यापि मनोन्तरवृत्तिविषयत्वेन वृत्त्यविषयत्वा- भावात्स्वपरिणामेति । पुरुषान्तरी याज्ञान विषयेऽपि ब्रह्मणि साक्षात्कार- सम्पत्त्यै स्वतादात्म्यवदिति । न च – पदवच्छिन्नचितो ज्ञानत्वं साक्षा- त्कारत्वं चोक्तम् तस्यैव तदुच्यतामिति – वाच्यम्; यथाहि आकाशं मेयं, घटाकाशं मेयं, पटाकाशं मेयं, इत्यादावनुगताकाशव्यक्तिविषयक- - -- , 1 ज्ञाना-ग.