पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 सव्याख्यायामद्वैत सिद्धौ प्रकाशत्वेन प्रदीपसाम्येऽप्यान्तरत्वेन तद्वैलक्षण्यमङ्गीकर्तव्यम्, अत इच्छादिवद्विप्रकृष्टेनापि सम्बन्ध: स्यात्, अन्यथा प्रदीप - वदेवाध्यासिकसम्बन्धोऽपि न स्यात्, परोक्षवृत्तौ विप्रकृष्टसम्ब- न्धदर्शनाच्चेति – वाच्यम्; देशकालविप्रकर्षाभावस्य सम्बन्ध सामान्यप्रयोजकत्वे सम्भवत्यान्तरप्रतियोगिकसम्बन्धभिन्नसम्ब- न्ध एवास्य प्रयोजकत्वमिति कल्पनाबीजाभावात् । इच्छायास्तु नेष्यमाणेन साक्षात्सम्बन्धः, किंतु ज्ञानद्वारकः परम्परासम्बन्ध एवेत्युक्तम् । परोक्षस्थले तु यद्यप्यधिष्ठानचैतन्येन साक्षादेव सम्बन्ध: ; तथापि विषयाकारवृत्त्या साक्षात्सम्बन्धाभावात् वृत्त्यवच्छिन्न चैतन्येन विषयस्य परम्परासम्बन्ध एव । ननु - भावात्तादृशव्यवहारसामग्री न कल्प्यते । तथाच सुखादौ तादृशज्ञान- जन्यतासत्वेऽपि न तस्याः सविषयकत्वपदार्थता कल्प्यते । तादृश- जन्यताश्रयः सुखमिति व्यवहारस्त्विष्ट इति भावः । यदि च ज्ञानस्ये- वेच्छादेरपि स्वत एव विषयत्वमिति परस्याग्रहः, तथापि न नः क्षतिः ; ध्वंसादेरिव तस्यापि तादृश सम्बन्धस्य सत्यत्वा भावात्तदृष्टान्तेन ज्ञान- सम्बन्धसत्यत्वस्य वक्तुमशक्यत्वादिति ध्येयम् । साक्षादेवेति । एतेन- यत्र चैतन्य विषयोऽध्यस्तस्तदेव वृत्त्यवच्छिन्नं सत् ज्ञानमिति ज्ञानस्य विषयेऽध्यास एव सम्बन्ध इति नियमो न व्याहत इति वक्ष्यमाणं सूचितम् । वृत्त्या साक्षादित्यादि । प्रत्यक्षवृत्त्या विषयस्यावच्छेदक- तारूपसाक्षात्सम्बन्धात् तदवच्छिन्नचैतन्यस्यापि साक्षात्सम्बन्धः | परोक्ष- वृत्त्या तदभावात्तदवच्छिन्नचैतन्यस्यापि न स इति स्वावच्छेदकवृत्त्या- काररूपपरम्परासम्बन्ध एव वाच्य इति भावः ॥ [प्रथमः न च वृत्तिविषयतादात्म्यापन्नचैतन्यमेव ज्ञानमस्तु तथा च तस्याधिष्ठानत्वाद्विषये साक्षात्सम्बन्ध एव लभ्यत इति – वाच्यम्;