पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् वैषम्यात् । ज्ञानस्य समानत्वेऽपि इच्छादावेव सविषयत्वप्रतीति- र्न तु सुखादी वस्तुस्वाभाव्यात्, त्वयाप्यस्यवार्थस्य वक्तव्य त्वात् । अन्यथा स्फटिके जपाकुसुमसन्निधानाल्लौहित्यवल्लोष्टेड- प्यापद्येत । अथ धर्मे तात्पर्यस्यानध्यासात्तात्पर्यसम्बन्धो न स्यात्, न; तात्पर्य हि तत्प्रतीत्युद्देश्यकत्वम्, प्रतीतेश्च ज्ञेया- न्तरेणेव धर्मेणापि सम्बन्धोऽध्यास एव, प्रतीतिद्वारा च धर्म- तात्पर्ययोः सम्बन्ध इत्यनुपपत्त्यभावात् । न च – ज्ञानस्य 85 1 वस्तुतस्तु प्रयोजकत्वमनिवेश्य स्वसम्बन्धिघटत्वावच्छिन्नादि- विषयत्वं नित्येच्छादिसाधारणं सम्भवतीच्छादेर्विषयेण सम्बन्धः | यथा हि संयोगत्वादिना रूपेण संयोगादिः स्वसमवेत एव द्रव्यादेः सम्बन्धो न तु कालिकादिना स्वप्रत्यासन्नोऽपि स्वासमवेतः 1, न वा • समवायेन प्रत्यासन्नोऽपि विभागादिः, तथा स्वसंम्बन्धिघटा द्यवच्छि- नादिविषयत्वं तच्छालिज्ञानजन्येच्छादेरेव सम्बन्ध इति नातिप्रसङ्गः, न वा प्रयोजकत्वादिनिवेशप्रयुक्तोक्तदोषः । स्वसम्बन्धित्वं च स्वसमान- कालीनत्वं विषयत्वे स्वप्रत्यासन्नतालाभाय वाच्यमेव । अतएव 'किञ्चि- देव विषयत्वं कस्यचिदिच्छादेः सम्बन्धः किं सर्वेच्छादिसाधारणानु- गतसम्बन्धतावच्छेदकानरूपणेने' त्युक्तशिरोमणिवाक्योत्तरमाशङ्कितमिति ध्येयम् ॥ आपद्येतेति । अनुभूयेतेत्यर्थः । लौहित्यमित्यादिः । लोष्टे लौहित्याननुभवात्तनिष्ठः स्वाश्रयसंयोगो न लौहित्यस्य सम्बन्ध इति त्वया वाच्यं चेत्, तर्हि मन्मतेऽपीच्छादेरेवोक्त सम्बन्धो न सुखादे- रननुभवात् । यन्मते स्फटिके लौहित्यभ्रमस्तन्मतेऽपि लोष्टे तदननु - भवाद्यथा न तत्सामग्री कल्प्यते तथा सुखादौ सविषयकत्वव्यवहारा-. C 1 समवेतः -ग, 2 घटत्वा.