पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60 सव्याख्यायामद्वैत सिद्धौ [ प्रथमः स्याभावो ज्ञातोऽभाव इति प्रतीत्यो लक्षण्यं न स्यात्; ज्ञाना- भावयाँरुभयोरेवोभयत्र स्वरूपसम्बन्धत्वे विषयकृतविशेषाभावात्। अत एव – विशिष्टप्रतीतिजननयोग्यत्वं ज्ञानज्ञेयादिस्थले अति- रिक्तमेव सम्बन्ध इति – निरस्तम्; अतीन्द्रिये नित्याभावेऽ व्याप्तेः । न हि तत्र विशिष्टप्रतीतिजननयोग्यता; फलोपधाना- , शिष्टेत्यनेन घटपटाद्यो वैशिष्टयसामान्यशून्ययोः स्वरूपसम्बन्धस्वीकारानौ- 'चित्यं ज्ञापितम् । यदुभयं मिथो विशिष्टस्य स्वस्य तदुभयं स्वम्य स्वरूपसम्बन्ध इत्युक्तावपि, आत्ममनो रूपोभयस्मिन्नतिव्याप्तिः,' तस्यापि संयोगसम्बन्धेन मिथो विशिष्टस्य स्वसम्बन्धिघटादिप्रत्ययजनकत्वात् । सम्बन्धान्तरं विना मिथा विशिष्टत्वोक्तावपि आत्मतज्ज्नयोः स्वरूपसम्ब- न्धाव्याप्तिः | विषयतासम्बन्धेन तादृशप्रत्ययं प्रति तादात्म्येन जनक- त्वादिकमप्यनवस्थादिषु दृष्टम् स्वरूपसम्बन्धविशेषरूपविषयताघटित- त्वादित्यादि बोध्यम् | विषयकृतेति । न च ज्ञानस्याभाव इत्यत्र या ज्ञानव्यक्तिविषयः, ज्ञातोऽभाव इत्यत्र न सेति विषयभेद इति वाच्यम्; विषयतावच्छेदकरूपस्य विशिष्टविषयस्य भेदो हि प्रकृतेऽवश्यं" वाच्यः, अन्यथा स्वाभावविषयकज्ञानविषयकयोरुक्ताकारज्ञान योर्विषयव्यक्तिभे- दस्य वक्तुमशक्यत्वात् । न च ज्ञानस्याभाव इत्यत्र ज्ञानविरोधित्व- विशिष्टभाव*स्वरूपं सम्बन्धः; ज्ञातोऽभाव इत्यत्र तु केवलं तत्स्वरूप - मिति वाच्यम्; तथा कल्पने मानाभावात्, अन्यथा घटीयत्वादिविशिष्ट- तदविशिष्टतत्स्वरूपाभ्यां भेदः किमिति न कल्प्यत इति भावः । अति- रिक्तेति । ज्ञानज्ञेयादिम्वरूपान्यो धर्मविशेष इत्यर्थः । फलोपधानेति । 2 स्वस्थ प्रतीतिजननं तदु-ग. 'आत्मनो - क. 7 5 दुष्टम् - क. " प्रकृतेरवड्य - क. ग. कार- 8मभाव -ग. ' घटीयत्वादिविशिष्ट तत्स्वरूपा-ख. 1 स्वीक रादिनी - ख. 4 ग. + इति व्याप्तिः-

-क. ख.

णभेदानुपपत्या स्वा- ग.