पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृक्दृश्यसम्बन्धभङ्ग : 59 किञ्च विशिष्टस्य प्रत्यय इत्यत्र स्वरूपसम्बन्धस्य षष्ठ्य- र्थत्वे आत्माश्रयः, सम्बन्धमात्रस्य तदर्थत्वे आत्मत्वादि- विशिष्टात्म सम्बन्धिसमूहालम्बनविषये घटपटादावतिव्याप्तिः ; तयोरपि विशिष्टसम्बन्ध्यविशिष्टविषयज्ञानजनकत्वात् । ज्ञान- एतादृश' नित्यस्य स्वरूपयोग्यत्वे सहकारिसमवधानमावश्यकम्, अन्यथा तत्साधारणरूपेण तदङ्गीकारे मानाभावः । अतीन्द्रियघटितधर्मावच्छिन्ना- भावभेद योग्यानुपलब्ध्यादेविंशिष्य हेतुत्वावश्यकत्वेन तनैव निर्वाहात्, अभावत्वादिनापि स्वरूपयोग्यत्वसम्भवेनोक्तगुरुरूपैर्नानास्वरूपयोग्यत्वो- क्तेरुन्नत्तप्रलापत्वात् । न ह्युक्त विशेषणेन कश्चनाभावो व्यावर्त्यते । संयोगाद्यभावस्य सङ्ग्रहाय एकावच्छेदेन प्रतियोगिसमानदेशत्वाभावस्य वाच्यतया तस्याप्यव्यावर्त्यत्वात् । किञ्च प्रतियोगिदेशान्यदेशवृत्तित्त्वादि- विशिष्टतत्तदभावस्वरूपसम्बन्धस्य विशिष्टधीस्वरूपयांग्य (त्व)म्वीकारऽपि प्रतियोग्यधिकरणदेशादौ जायमाना धीः प्रमा कुतो न म्यादिति यदापा- दितम्, तत्र मूढेन किं समाहितम् ? तत्म्वरूपम्य तत्रापि सम्बन्धत्व- सम्भवात् । न च —–— घटादिमति घटाद्यभावज्ञानं भ्रमः, तदन्यत्र तत्प्रमेत्युक्तं (युक्तम् ); तद्वति तद्वदन्यत्वम्वरूप सम्बन्धम्यानिवारितत्वात् । एतेनोक्त रूपैर्विशिष्टधीस्वरूपयोग्यत्वाभावेऽप्युक्त रूपावच्छिन्नमभावादिम्व- रूपमेव सम्बन्धः, प्रतियोग्यधिकरण सम्बन्धिरूपवारणायावच्छिन्नान्तमिति परास्तम् । अपि चोक्तरूप: स्वरूपयोग्यता विषयतासम्बन्धन विशिष्ट- बुद्धिं प्रति वाच्या । तथाच विषयता घटितविशिष्टधी म्वरुपयोग्यताव- च्छेदकरूपावच्छिन्नज्ञानज्ञेयादिस्वरूपम्य विषयतादिरूपत्वेऽनवस्थादि दुर्वारमिति भावः । तयोः घटपटाद्याः । विशिष्टसम्बन्धी आत्म- समवेतः । अविशिष्टविषयेति । स्वविषयकसमूहालम्बनत्यर्थः । अवि- --- " विषयिता. । एतादृशमि - क. ख. 2 बांधे -ग. 3 न तद्युक्त.