पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ सम्बन्धोऽस्तीति–वाच्यम्; लिङ्गस्यापि स्वज्ञानसम्बन्धित्वेना- नुमितिविषयत्वापत्तेः । न चानुमितौ तद्व्याप्ततारूपसम्बन्ध एव विषयतानियामकः; व्यापकतावच्छेदकव्यापकसम्बन्धादीनाम- 54 आपत्तेरिति ॥ - ननु – व्याप्तिघटकसम्बन्धत्वरूपणानुमितिस्थलीयसन्निकर्षो नि- वेश्यः, व्यापकतावच्छेदकधर्मसम्बन्धयोस्तद्घटकत्वान्न दोष इति - चेन्न ; व्याप्तिघटकत्वं हि व्याप्तिविषयिताव्यापक विषयिताकत्वमित्यात्माश्रयादिः व्याप्ति' घटकवस्तुमात्रेऽतिव्याप्तिश्च || 2 अथ -- तज्ज्ञानकरणम्य यादृशयादृशसम्बन्धाश्रये वस्तुगत्या विषयत्वव्यवहारः, तादृशसम्बन्धानामन्यतमवत्त्वं तज्ज्ञानविषयत्वलक्ष- णम्। धूमाभासादिभ्रमजन्यानुमित्यादिविषयवन्ह्यादा वपि धूमाभासादिव्या- पकत्वादिसम्बन्धासत्त्वेऽपि तादृशसम्बन्धधीविषयत्वादिरस्ति । शुक्तया- दिविशे यकश्रमविषये रूप्यादावपि करणसम्बन्धि दोषप्रयुक्तत्वादिरस्तीति' नाव्याप्तिरिति -- चेन्न; तज्ज्ञान कारण तावदन्यतमसम्बन्धवत्त्वस्य तज्ज्ञा- नविषयतारूपत्वे घटविषयकज्ञानत्वादेरननु गमात्तेन रूपेण हेतुताद्यस- म्भवात् । कारणसंयोगादेस्तज्ज्ञानोत्पत्त्यादिक्षणे विनाशेन तस्य तद्विष- यतात्वासम्भवात्, सम्बन्धान्तरस्य चानतिप्रसक्तस्य तज्ज्ञानकालमात्र- वृत्तेः सर्वत्राभावात् । तज्ज्ञान कारण सम्बन्धिदोषप्रयुक्तत्वादिरपि परमते न रूप्यादौ, किं तु तद्रम इति तत्राव्याप्तितादवस्थ्याच्च । परमते तस्या- सत्त्वेन तत्र करणसम्बन्धाभावाच्च ॥ यत्तु --- 'शुक्तिरूप्यादिभ्रमसम्बन्धोपि" न भ्रमविषय इति न स्तेति. [प्रथम: , 1 घटितपम्परासम्बन्धमादाय वस्तु-ग. 2 तमत्वं. 3 तत्वादिना निर करण- क. ग.नु. " सम्बन्धमपि - क. ख. ग.