पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभाव बाधकनिरूपणम् वा मम तु तत्तज्ज्ञानस्य तत्तदीयस्वभावत्वेन तत्तव्यवहारजनन- शक्तत्वेन वा स्वत एव वैलक्षण्यमिति वाच्यम्; विषयस्यैवाकार- समर्पकत्वेन स्वभावव्यवहारयोः परिचायकत्वेन च तत्रैरपेक्ष्येण व्यावर्तकताया वक्तुमशक्यत्वात् । (अस्माभिश्च तुच्छे जनकत्व- स्यानुक्तत्वात् ) विशेषणत्वोपाधित्वयोः सम्भवे च नोपलक्षणत्व- मित्युक्तम् । न च 'कथमसतः सज्जायेत' इति श्रुत्या 'नास- तोऽदृष्टत्वात्' इति सूत्रेण शशविषाणादिभ्यः सदुत्पत्यदर्शनादि- त्यादिभाष्येण च विरोध:; तेषां तुच्छे जनकत्वनिषेधपरत्वात्, अस्माभिश्च तुच्छे जनकत्वस्यानुक्तत्वात् । तस्मात् सद्विविक्तत्वं साधनमिति सिद्धम् || इत्यद्वैनसिद्धौ असनस्साधकत्वाभाव बाधकम्. 39 विषयाघटितं तत्तदाकारत्वं तत्तद्विपयितारूपोऽतिरिक्तधर्मो यद्यपि ; तथापि तस्य प्रत्यक्षज्ञाने व्यावर्तक विषयघटितरूपेणैव भानमिति विषयस्य व्यावर्तकत्वमावश्यकम् | विषयिताविशेषसम्बन्धेन विषय स्यापि व्यवहारादिकारणतादाववच्छेदकत्वं सम्भवतीति न विषयिता- विशेष एव तदवच्छेदको न वा तत्त्वेनातिरिक्तशक्तेम्सिद्धिरित्याशये- नाह -- विषयस्यैवेति । आकारसमर्पकत्वेन विषयिताविशेषरूपा- कारापेक्षणीयत्वन, तच्चोक्तरीत्या बोध्यम् । व्यवहारेति । व्यवहारजनके- त्यर्थः । परिचायकत्वेन इतरम्माद्वयावर्तकत्वेन | ज्ञानस्वभावानाम- नुगतत्वाभावात् तेषामेव न तेषु व्यावर्तकत्वम्, न वा व्यवहारादिजनक- ताविशिष्टव्यावर्तकत्वम् । अतो विषयम्य व्यावर्तकत्वं जनकत्वादाव- बच्छेदकत्वं चावश्यकमिति भावः ॥ 1 कारणतावच्छेदकत्वं