सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 सव्याख्यायामद्वैतसिद्धौ लक्षणत्वनिबन्धनदोषावकाशः, सन्देहे तु विशेषणत्वमेबाभ्य- हितत्वादुपेयते । तस्माद्विषय एव सर्वत्र ज्ञाने व्यावर्तकः । एकविषयकस्मृत्यनुभवयोः परोक्षापरोक्षयांच विषयमनपेक्ष्य जात्या परस्परव्यावृत्तिदर्शनात् सर्वत्र विषयनिरपेक्षा जातिरेव व्यावर्तिकेति न युक्तम् ; भिन्नविषयके समानजातीये तदसम्भ- वात् । न च–तत्रापि जातिरस्ति क्षीरादिमाधुर्यवदिति वाच्यम्; चाक्षुषत्वादिना सङ्करस्योक्तत्वात् । न च तव मते तत्तद्वृत्तेस्त- तदाकारत्वेन चैतन्यस्य तत्प्रतिबिम्बितत्वेन ( तदभिव्यक्तत्वेन) [प्रथमः 1 स्थापकं, तत्र तदुपलक्षणम् तादृशे यत्र तादृशं व्यावर्तकोपस्थापनं विनापि व्यावर्तकम्, तत्र तदुपाधिरिति प्रकृतग्रन्थाभिप्रेतमपि युक्तमेव ॥ . परमार्थतम्त्वविद्यमानस्य धर्मान्तरोपस्थितिं विनापि व्यावर्तकस्यो पलक्षणत्वं कल्पतर्वाद्युक्तं यथाश्रुतं परिभाषामात्रे पर्यवसन्नं स्यात् । विशेषणत्वादिनिर्वचनं हि मुख्यामुख्यत्वविवेचनाय विशेषणत्वसम्भवे नोपाधित्वं, तत्सम्भवे च नोपलक्षणत्वं स्वीक्रियत इति फलकाय । तथा च यदि धर्मान्तरोपस्थापकमेवोपलक्षणम्, तदा तस्य स्वतो व्यावर्त - कत्वाभावेनोपाध्यपेक्षया जघन्यत्वमुपपद्यत । स्वतो व्यावर्तकत्वे तु 2 नाविद्यमानतामात्रेण जघन्यतोपपद्यत । अतएव विशिष्टवृत्तिज्ञानम्य विशेष्यान्वय्यशे” विशेषणयोग्यताज्ञानसहकारेणैव शाब्दधीजनकत्वा- द्विशेषणम्योपाधित्वेनान्वयबोधो लक्षणयैवेत्याद्युक्तमित्युपाघेरपि विशेषणा- पेक्षया जघन्यतोपपद्यत इति प्रकृतग्रन्थार्थ एव साधीयान् । तत्रैव च कल्पतर्वादिग्रन्थस्यापि तात्पर्य बोध्यम् || 2 सङ्करस्येति पूर्वोक्तदोषगणस्योपलक्षणम् । तत्तदाकारत्वे- नेत्यादितृतीयानामभेदोऽर्थस्तस्य वैलक्षण्यमित्यत्रान्वयः । स्वत एव 1 यत्रा - ख. ग. 2 तु विद्य. 3 विशेष्यत्वांशे. ,