पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 31. सतोरेव व्यावर्तकत्वम् । न हि व्यावृत्तिषीजनकत्वं तत् येम सवाभावे प्राक्सचशरीरतया न स्यात्, किंतु व्यावृत्तिषी- जनकधीविषयत्वमित्युक्तम् । तच्चातीतादौ सुलभमेव । अतएवा- भावादिनिदर्शनमपि निरस्तम्; उक्तरूपव्यावर्तकत्वस्यात्यन्ता- सत्यपि सम्भवेन कदाचित्सति सम्भवस्य कैमुतिकन्यायसिद्ध- त्वात् । ननु – विषयस्य व्यावर्तकत्वेऽपि सर्वत्र विशेषणत्वा- सम्भवादुपलक्षणत्वमेव वाच्यम्; उपलक्षणेन चोपलक्ष्यगतस्व- सम्बन्धव्यतिरिक्तः कश्चिद्धर्म एवोपस्थाप्यते, काकेनेव गृहसम्ब- न्धिना तद्गतसंस्थानविशेष:; तथाच स एव व्यावर्तक इति विष- यसम्बन्धमनपेक्ष्य स्वगतेनैव धर्मेण ज्ञानस्य व्यावृत्तिरिति चेत्र; विषयस्य विशेषणत्ववदुपलक्षणत्वस्याप्यनभ्युपगमात् । येन हि • स्वोपरागाद्विशेष्ये व्यावृत्तिबुद्धिर्जन्यते, तद्विशेषणं व्यावृत्तिबुद्धि- काले विशेष्योपरञ्जकमित्यर्थः; यथा गोत्वादि । येन च स्वोपराग- रीत्या स्वरूपतोऽवच्छेदकत्व सम्भवेनातिरिक्तधर्म कल्पने मानाभावादिति समुच्चीयते । अत्यन्तासतीति | मिथ्या नूतेत्यर्थः । स्वसत्ताकालेऽपि स्वसमानाधिकरणात्यन्ताभाव प्रतियोगिनीति यावत् । तेन तुच्छस्य मानाविषयत्वेनाव्यावर्तकस्वेऽपि न क्षतिः । कदाचित्सतीति । सर्व- कालसम्बन्धिनीत्यर्थः । स्वोपरागाद्रिति । स्वापरागमादायेत्यर्थः । स्वोपरक्ता व्यावृत्तिबुद्धिर्यद्बुद्धया जन्यत इत्यर्थः । काले इति । तथाच स्वकालीनत्वे सति स्वविषयतानिरूपितविशेष्यता शालित्वमेव व्यावृत्ति - बुद्धौ स्वोपराग इति भावः । स्वध्वंसादेरित रस्माद्द्यावर्त के प्रतियोग्यादा- वुपाघावतिव्याप्तिवारणाय सत्यन्तम् । उपलक्षणे तद्वारणाय विशेष्यम् यथा गोत्वादीति । गोत्वं गोव्यावर्तक मित्यादिप्रतीतौ व्यावृत्तिबुद्धौ 8 योगाव्याव. 1 जाभाव - फ. स्व. 2 सत्यत्वेन त्वदभ्युपगते सर्व-क ग.