पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् 27 यथा चाती- दन्यसम्बन्धितामात्रेण विलक्षणः स्यात् । एवं च यथा प्रति- योगिनमनन्तर्भाव्यैव घटस्याभावोऽभावान्तरात्, यथाच विषय- मनन्तर्भाव्यैव शिलोद्धरणकृतिर्माषोद्धरणकृतितः तादिज्ञानम सद्विषयकपरोक्षज्ञानव्यवहारौ च ज्ञानान्तरादितः, अन्यथा तत्कार्यसङ्करः स्यात् ; एवं सर्पज्ञानमपि रजौ सर्पज्ञानस्य भ्रमत्वेनाधिकजन्यत्वेऽपि सर्पज्ञानत्वेन तद्धेतुजन्यत्वात् स्वत एव वा असर्पज्ञानाद्विलणमिति न कोऽपि दोषः । न चाभावादावपि प्रतियोग्यादेरवच्छेद कत्वम् ध्वंसादेः कृतेरतीतादिज्ञानस्य च सत्तासमये प्रतियोगिविषययोरसत्वादिति । तन; सर्पज्ञानत्वा- वच्छिन्नस्यासर्पज्ञानाव्यावृत्तौ प्रयोजकं न तत्तत्स्वरूपमेव ; सर्व- ज्ञानसाधारण्याभावात्, किन्त्वनुगतो धर्मः कश्चित् । सोऽपि सर्पज्ञानमात्रे न जातिरूपः प्रत्यक्षत्वानुमानत्वादिना सङ्करप्रस- जात्, किं तूपाधिरूपः । स च स्वरूपसम्बन्धेनाध्या- सिकसम्बन्धेन वा सम्बन्धिभूतविषयादन्यो न भवति : वच्छेदकत्वे गौरवादतिरिक्तमखण्डं वैलक्षण्यमवच्छेदक विना जन्यता नोपपद्यत इत्यनुकूलस्तर्क इति भावः । विलक्षणः स्यादिति ।. चैत्रा- दिसम्बन्धित्वादेर्गुरुत्वेनावच्छेद कान्तरमखण्डं कलमबीजादिनिष्ठो यव- बीजादिव्यावृत्तो जन्यजनकभावः कल्पयतीति चेत्, तर्हि सर्पज्ञानेऽपि तथा बोध्यमिति भावः । सर्वज्ञानेति । सर्वसर्प ज्ञानेयर्थः । विषयादन्यो नेति ॥

अत्रेदं बोध्यम् -- कलमची जादौ तादृशवैलक्षण्यस्य प्रत्यक्ष- सिद्धत्वाल्लघुरूपान्तराभावाच्च तदेव जनकत्वावच्छेदकम् । सर्प- ज्ञानादौ तु तन्न प्रत्यक्षसिद्धम् नाप्यवच्छेदकतया कल्प्यम्; विष - , , सपासपे.