पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 सव्याख्यायामद्वैतसिद्धो [ प्रथमः जननयोग्यं ज्ञानस्वरूपमेव वा ज्ञानमात्रनिष्ठः कश्चिद्धर्मो वा सम्बन्धः, ताई, विषयमनन्तर्भाव्यैव ज्ञानात्तद्गतधर्माद्वा विशेष- सिद्धिरित्यायातम् । किञ्च सर्पज्ञानमसर्पज्ञानाद्धर्म्यन्तरसम्बन्ध- मनपेक्ष्य विलक्षणम्, तज्जनकविलक्षणजन्यत्वात्, यवाकुरा- त्कलमाकुरवत्, तज्जन्यविलक्षणजनकत्वाद्वा, तञ्जन्यविलक्षणजनकत्वाद्वा, यवबीजात्कलम- बीजवत् । न च विलक्षणविषयसम्बन्धेनैव हेत्वोरुपपत्तावप्रयो- जकत्वम् ; तथात्वे हि यवबीजतदकुरविलक्षणजन्यजनके कल- माकुरतद्वीजे अपि यवाहुरतद्वीजा (कुरा ) भ्यां कलमाकुरतद्वीजत्व- रूपस्वाभाविकवैलक्षण्यं विना कदाचिदुपलक्षणीभूतचैत्रादिसम्ब- न्धित्वमात्रेण विलक्षणे स्याताम् । साक्षात्कारोऽपि परोक्षज्ञाना- 3- १ कश्चिदिति । विषयिताविशेषरूप इत्यर्थः । विशेषसिद्धिः - व्यावृत्ति- सिद्धिः । ननु – विषयाघटितरूपेण तत्तज्ज्ञानस्वरूपस्य सर्पत्वा चव, च्छिन्नविषयिताविशेषस्य वा त्यावर्तकत्वं न सम्भवति ; आद्यस्याननु गतत्वात् ; द्वितीयस्य सर्पत्वेन सर्पज्ञानमात्रगतत्वे तत्तत्सर्पज्ञा नाड्याव- र्तकत्वासम्भवात् विषयस्य तु तत्तत्सर्परूपस्य तस्माद्यावर्तकत्वं सम्भ- वत्येव । किञ्च प्रत्यक्षे व्यावर्तकज्ञाने ज्ञानस्य विषयिता विशेषस्य वा न स्वरूपतो भानमिति विषयघटितरूपणैव व्यावर्तकत्वं वाच्यमत- आह–किश्चेति । धर्म्यन्तरसम्बन्धमनपेक्ष्य विलक्षणमिति । स्वविषय सम्बन्धान्यवैलक्षण्ययुक्तमित्यर्थः । तेन विषयितामादाय न सिद्धसाधनादि (शक्तयन्येत्यपि वैलक्षण्ये विशेषणं देयम् ) 1 तजन- - - केति – असर्पज्ञानजनकेत्यर्थः । विलक्षणेति – भिन्नेत्यर्थः । असर्प- ज्ञानव्यावृत्तजन्यत्वाश्रयधीत्वादिति तु पर्यत्रसितम् । सर्पज्ञानत्वादेर्जन्यता- 1 सत्वा. क पुस्तके न दृश्यते. 2 तत्तत्संज्ञाना -क. 3 विषयता. 4 अयं कुण्डलितः पाठः .