पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 493 तत्प्रा- व्याव पादनवैयर्थ्यम् ; दशाविशेषे स्वर्गनरकादिसत्त्वप्रतिपादनेन प्तिपरिहारार्थ प्रवृत्तिनिवृत्त्योरेव तत्तत्प्रयोजनत्वात् । हारिकत्वं च ब्रह्मज्ञानेतराबाध्यत्वम्, न त्वबाध्यत्वम्, मिथ्या- त्वबोधकश्रुतिविरोधात् । न चैवं दृढभ्रान्तिजनकत्वादत्यन्ता- प्रामाण्यापत्तिः; स्वमार्थप्रतिपादनवदुपपत्तेः । एतावानेव विशेषः- मानान्तरप्राप्तिबाधाभ्यां हीनार्थ एव तत्स्वीकारेण विश्वसत्यत्वादौ ताभ्यां युक्ते तदसम्भवात् । दशाविशेष इति । परलोकानङ्गीकर्तृवादि. विप्रतिपत्त्या स्वर्गादौ सत्यतासन्देहदशायामित्यर्थः । यद्यपि सत्यं मिथ्या- वेति सन्दिग्धमपि स्वर्गादिकं स्वप्नविषय इव भवति प्रवृत्त्या युद्देश्यम्; तथापि व्यावहारिकादि सत्यमलीकं वेति सन्दिग्धं तन्न तथेति व्यावहा- रिकसत्त्वप्रतिपादनेनोक्तसंशयनिवृत्तिद्वारा प्रवृत्त्यादौ तात्पर्यमिति भावः । श्रुतिविरोधादित्युपलक्षणम् व्यावहारिकसत्यत्त्वस्य प्रत्यक्षादिसिद्धस्यानुवा- दद्वारोक्तप्रवृत्त्यादिपरत्वे सम्भवति अपूर्वस्य बाध्यत्वसामान्याभावस्य विधा- यकत्वे गौरवादित्यपि बोध्यम् । दृढभ्रान्तीति । श्रुतिजन्यभ्रान्तेर्मानान्तर- बोधितार्थविषयकत्वेन संवादाद्धमत्वशङ्कानास्पदत्वं दृढत्वमिति भावः । अत्यन्ताप्रामाण्येति । उक्तदृढभ्रान्तिजनकत्वव्यवहारेत्यर्थः । स्वप्नार्थ- प्रतिपादनवदिति । 'सधी: स्वप्नो भूत्वेमं लोकमनुसञ्चरति ' इत्यादि शुद्धत्वं पदार्थप्रतिपादनार्थानुवादरूपा, 'यदा कर्मसु काम्येषु स्त्रियं स्वप्रेषु पश्यति । समृद्धिं तत्र जानीयात्' इति स्वमदर्शनफलप्रति- पादनार्थानुवादरूपा वा श्रुतिरिवेत्यर्थः । व्यावहार्रिके विश्वसत्त्वे चावान्तर तात्पर्याभावं स्फुटयति - एतावानिति । तत्स्वान मिथ्यात्वश्रुतिर्द्विधार्था, नेह नानेत्यादिरधिकरणाभावयोस्संसर्गबोधिका 'प्रपञ्चोपशमं शिवमद्वैतं, अस्थूलमनणु, इत्यादिस्त्वखण्डब्रह्मार्था समानाधिकरणनाम्नोस्सोऽय- मित्यादाविव ( खण्डार्थत्वस्य सिद्धान्ते स्वीकारात्, तत्राऽऽद्याया अख- 1 न विधायकत्वम्. 2 शुद्धयर्थ. 3 तत्स्वाप्नं. , आगमबाधोद्धारः