पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

492 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 1 द्वारेण निषेधवाक्यशेषता । विश्वं सत्यमित्यादेस्तु निषेधविषय- समविषयत्वेन स्वार्थतात्पर्यरहितत्वेन च निषेध्यसमर्पणद्वारेण निषेधवाक्यशेषतोचितैव । अत एव प्रत्यक्षाप्राप्तधर्मादिसवोप- स्थापनेन वाक्यसाफल्यमपि । स्वार्थतात्पर्यरहितत्वेन च नानी- षोमीयवाक्यतुल्यत्वमित्युक्तम् । अतो दृश्यत्वादिहेतोर्धमाद्यं - शेऽपि श्रुत्या न बाधः । अथवा व्यावहारिकसत्त्वपरेयं विश्व - सत्यत्वश्रुतिः । न च व्यावहारिकसचे सर्वाविप्रतिपत्तेस्तत्प्रति- अमीषोमयहिंसाया निषेध्यत्ववादिना ऽवैधाहंसाया अपि निषेध्यत्वस्य वाच्यतया निषेध्यमात्रममषिोमयवाक्यस्य न विषय इति भावः । स्वार्थतात्पर्यरहितत्वेनेति । स्तुत्यादितात्पर्यकत्वाद्विश्वसत्वे स्वार्थे न तात्पर्यमिति भावः । साफल्यमिति परभ्रान्त्यनुसरणम्, धर्मादि- सत्त्वस्याप्युक्तरीत्या प्राप्तत्वात् । यत्तु विश्वं सत्त्यामित्यादिवाक्यमपि धर्मादिमात्रसत्त्वविषयकत्वान्नेतीत्यादि । श्रुतेः सर्वदृश्य निषेधबोधकत्वेन निषेधन्यूनविषयकमिति, तत्तुच्छम् ; नेति नेतीत्यादिश्रुतिर्हि इति- शब्दोपात्तनानाधर्मावच्छिन्न प्रतियोगिताकान्नानानिषेषान् बोधयतीति वि श्वसत्ववाक्यं यदि धर्मादेरेव सत्त्वं बोधयेत्, तथापि धर्मादौ सत्यतात्वा - वच्छिन्नाभावबोधकत्वांशे नेतीत्यादिश्रुतिसमानविषयकमेव, निषेध्यताव- च्छेदकरूपावच्छिन्नविषयताकत्वस्यैव समानविषयकत्वस्यापेक्षणीयत्वात् । तावतैव प्रतियोगितावच्छेदकविशिष्टप्रसक्तेर्निर्वाहात् नहिंस्यादिति वा- क्यस्य तु भूतहिंसात्वावच्छेदेन बलवदनिष्टाजनकत्वाभावबोधकत्वे हिंसा- त्वावच्छेदेनोक्ताजनकत्वरूपप्रतियोगिप्रसक्तिसापेक्षत्वात् अग्नीषोमीयवाक्यं तादृशप्रसक्तिजनकमनपेक्षणीयमेव । व्यावहारिकसत्त्वपरेति । व्याव- हारिकसत्त्वानुवादद्वारा वाक्यबोध्यप्रवृत्त्यादिपरेत्यर्थ: । द्वारीमूतार्थेऽ- बान्तरतात्पर्यस्वी कारमतेऽपि 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादौ 1 श्रुतिनिषेध्य सर्वदृश्योबोधकत्वन. 2 त्वेन.