पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाघोद्धारः 479 कत्वनियमः, स्वाध्याये नेदं रजतमिति वाक्ये च व्यभि- चारात् । अथ तत्र ज्ञानविषयतया निषेध्यतया चानुवाद इति न तात्त्विकत्वम्, तर्हि प्रकृतेऽपि 'नेह नाना' इति निषेधार्थत्वादस्यानुवादस्य न तात्त्विकत्वमिति गृहाण । अतएव न वाक्यार्थस्यासत्त्वप्रसङ्गः, तात्पर्यविषयस्य सन्चात् । अथ 'किञ्चन' इत्यनेनैवानुवादस्य कृतत्वात्किमधिकेनेति चेन्न; सामान्यतो निषेधस्य हि किञ्चनेत्यनेन निषेध्यसमर्पणेऽपि चान्यविधानायैवायमनुवाद इति भावः | स्वप्नाध्याय इति । स्वप्न- फलोक्तिरूपे ग्रन्थ इत्यर्थः । ज्ञानविषयतया । भ्रमविषयतया । निषेध्यतया स्वसमानाधिकरण निषेधप्रतियोगितया । इति न तात्त्विक त्वमिति । भ्रमविषयादेस्तात्त्विकत्वासंम्भवो विधानायानुवाद्यस्य ज्ञान - मात्रमपेक्षितम्, न तु तात्त्विकत्वमिति भावः । निषेधार्थत्वात् स्व- समानाधिकरणनिषेषप्रतियोगिबोधकत्वात् । न तात्त्विकत्वमिति तद्वि- षयस्य विश्वसत्यत्वस्येत्यादिः । अतएव उक्तानुवादस्याज्ञात निषेधज्ञाप- नार्थत्वादेव । तात्पर्याविषयस्य निषेधस्य सत्वात् तात्त्विकत्वात् । निषेधस्य मिथ्यात्वघटकस्य व्यावहारिकत्वपक्षे तदेव सत्त्वशब्दार्थः । तथाच तत्पक्षपि कर्मकाण्डवड्यावहारिकप्रामाण्यं वाक्यस्याक्षतमिति भावः । यत्तु अनुवाद्यासत्त्वे तन्निष्ठो विधेयसंसर्गोप्यसन् स्यादिति परे - णोक्तं, तदप्यत एव परास्तं बोध्यम् । नेदं रूप्यमित्यादावसत्यपि रूप्ये निषेधस्य विधेयस्य परेण तात्त्विक प्रतियोगित्वरूपसंसर्गाभ्युपगमान् 'त्रीहीन् पोक्षति' इत्यादौ प्रातीतिकवीह्यादिकं नोद्देश्यं, अपूर्वसाधन त्वात्, न हि सर्वमनुवाद्यं विधेयापेक्षया न्यूनसत्ताकमिति ब्रूम इति ध्येयम् । सामान्यत इति । आकाशत्वादिनानाधरित्यर्थः । किंच- नेत्यनेनेति । सर्वनाम्नेति शेषः । निषेध्यसमर्पणेऽपीति । आकाश-