पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

478 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः त्वाच्च । न ह्यन्यतस्सिद्धेऽर्थे शास्त्रतात्पर्यम् । अतो न तत्र प्रामा- ण्यम् । यदाहुर्भट्टाचार्याः – 'अप्राप्ते शास्त्रमर्थवत्' इति । नन्वः यमनुवादो न 'वायुर्वै क्षेपिष्ठा देवता इत्यादिवत् स्तुत्यर्थ - न वा दना जुहोतीत्या दिवदन्यविधानार्थः; अनुवाद्यत्वेऽ- प्यन्यविधानाय प्रमाणानूदितस्य ताच्चिकत्वनियमात् । न हि 'वहीन् प्रोक्षति' इत्यादावारोपितव्राह्यादेधः, अनुवा- ग्रस्यासत्त्वे ह्याश्रयासिद्धौ धर्मधर्मिसंसर्गरूपानुमितिवेद्य इवानु- वाद्यविधेयसंसर्गरूपवाक्यार्थो बाधितस्स्यादिति चेन; अस्या- नुवादस्याप्राप्तान्यप्राप्त्यर्थत्वात् । न च प्रामाणानूदितस्य तात्त्वि- वेन सौत्रमुक्तपदं यथाश्रुतार्थकम् । विश्वसत्वस्य च मानान्तराधिगत- त्वान्न तत्र श्रुतेस्तात्पर्यम् । विप्रतिपत्तिनिरासाधीनतद्धीद्वारा कर्मानु- ष्ठानतात्पर्यकत्वं तु न तस्यास्सम्भवति । प्रपञ्चसत्यत्वविप्रतिपत्तावपि मिथ्यात्वनिश्चयाभावेन कर्माधिकारानपायादित्युक्तम् । तत्सम्भवेऽपि तस्या न विश्वसत्वपरता सिद्धा, किन्तु कर्मानुष्ठानपरतेति विश्वमिथ्यात्वं निर्विघ्नमेव । अत एव अथ' व्यावहारिकसत्वपरेत्यादिना आचार्यरमे तस्याः कर्मानुष्ठानपरत्वं वक्ष्यत इति ध्येयम् || न ह्यन्यत इति । यत्तु ज्ञातेऽपीष्टार्थे क्रियासमभिव्याहारेण तात्पर्य वाक्यस्याविरुद्धं बालभाषितस्येवोत । तत्तुच्छम् ? बालभाषि- तस्य हि अन्यतोऽसिद्धसुखविशेषजनकवाक्यार्थधीप्रयोजकत्वात्स्वार्थे धूमोऽस्तीति वाक्यस्य वड्यनुमिताविव सुखसाक्षात्कारे वा तात्पर्य युक्तम् । प्रकृते तु सत्वश्रुतेरन्यतोऽसिद्धप्रयोजनाभावान्न तदित्युक्तत्वात् । स्तुत्यर्थ इति । स्तुतिधीद्वारमित्यर्थः । इत्यादिवदिति । इत्यादौ जुहोतीत्याद्यंश इवेत्यर्थः । अप्राप्तेति । अज्ञातनिषेधज्ञापनेत्यर्थः । तथा- 1 अथवा.