पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] आगमबाघोद्धारः 1 पूर्णमासाभ्यां स्वर्गकामो यजेत' इति वाक्येन आग्नेयादियागसाधा- रण्येन तदसाधारण्येन वा उक्तकर्मद्वयप्रयाजादीनां फलसम्बन्धः, कालयोगिषु द्वित्वस्येव द्वित्वेन प्रसिद्धाज्यभागादिषु कालयोगस्याप्रसि- द्धत्वेन यजिसङ्कोचे विनिगमकाभावात् राजसूयन्यायेन प्रकरणा- त्सर्वेषामेव फलसम्बन्धौचित्यात्, न तु षण्णामेवेति प्राप्ते नोक्तवाक्यं विधायकम् यदामेय इत्यादौ यच्छब्दस्य कर्तृसामानाधिकरण्या- भावादप्रसिद्धप्रस्तूयमानार्थकत्वेन विध्यविरोधित्वेऽपि प्रकृते कर्तृसामा- नाधिकरण्येन प्रसिद्धकर्तृपरामर्श कत्व सम्भवात् श्रयमाणत च्छब्दपर्यन्त श्रूयमाणतच्छब्दपर्यन्त- वाक्यार्थविधिविरोधित्वस्यानपवादात्, एवं शब्दसमभिव्याहारेण प्रसिद्धा- र्थकत्वनिश्चयाच्च । उक्तं हि वार्तिके- क्रियापदै कयोगित्वे यच्छब्दो न रुजेद्विधिम् । कर्तृयुक्तस्स एवान्यप्रापितार्थानुवादकृत् || इति । रूपालाभाच्च, वात्रेनीवाक्यं हि आज्यभागाशतया लिङ्गक्रमप्राप्तानां वात्रे- घ्नीवृधन्वतीमन्त्राणां कालद्वारा कर्मद्वारा वा व्यवस्थामात्रविधायकम्, न त्वपूर्वस्य कर्माङ्गत्वस्य बोधकम्, गौरवात् । यदाग्मेय इत्यादिकमपि न द्रव्यदेवताविधायकम् ; प्राप्तकर्मानुवादेना नेकविधाने वाक्यभेदात् । यदि हि नानागुणविशिष्टा भावना विधीयेत, तदा तदन्यथानुपपत्त्या कल्प्येषु विशेषणविधिषु न श्रूयमाणविधेर्व्यापार : ' | भावनायाः प्राप्तत्वे तु विशेषणेष्वेव विधिव्यापारादेकगुणावधाने गुणान्तरक्षेपासम्भवात् विध्या वृत्तिलक्षणो वाक्यभेदः । उक्तं हि वार्तिके - 2 शब्दव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति || 473 ननु अनेकगुणान्वितभावनायामप्राप्तायामिव प्राप्तायामपि प्रवर्तनारूप- विध्यन्वयस्य सम्भवादनेकगुणानां प्राप्तकर्मानुवादेन विधाने को दोष 1 चोक्त कर्म. 2 व्यापारः कल्प्यः. 3 विध्यन्तराबृत्ति.