पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः व्युत्पत्यपेक्षत्वेन प्रत्यक्षसापेक्षत्वस्यैवोक्तेः । न च – वादिविप्र- तिपत्तिनिरासप्रयोजनकत्वेन न निष्प्रयोजनानुवादकत्वम्, सप्र- योजनानुवादकत्वं तु न स्वार्थपरत्व विरोधि; विद्वद्वाक्ये समुदा यद्वित्वापादनरूपप्रयोजनवत्वेनानुवाद्यस्वार्थपरताया दृष्टत्वात् । 472 प्रत्यक्षसापेक्षत्वस्येति । न चैवं सत्यं ज्ञानमित्यादिवाक्यस्यापि शक्य- सम्बन्ध रूपलक्षणाज्ञानापेक्षितशक्यज्ञा नापेक्षणीयेन' सन्नहमित्यादिप्रत्यक्षे- णानुवादस्स्यादिति वाच्यम्; ब्रह्मत्वसामानाधिकरण्येन सत्त्वाग्राहक त्वादिना उक्तरोदनस्य परिहृतत्वात् || विद्वद्वाक्य इति । “य एवं विद्वान् पौर्णमासीं यजते स याव- दुक्थ्येनोपामोति तावदुपाप्नोति; य एवं विद्वानमावास्यां यजते स यावदतिरात्रेणोपाप्नोति तावदुपाप्नोति" इति वाक्य इत्यर्थः । उक्तवाक्यं अपूर्वकर्मणोर्विधायकं वा, 'यदाभे योऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति' इत्यादिना पौर्णमास्यमावास्याकालयोगित्वेन श्रूय- माणानां षण्णामनुवादकं वेति संशये, अनुवादकत्वे वैयर्थ्याद्विधायक मेव । यदामेय इत्यादौ यो दीक्षित इत्यादाविव च यच्छब्दस्य विधि- विरोधित्वाभावात् । अत एव पौर्णमास्यमावास्यापदे अपि नामधेये । पौर्णमास्यां पौर्णमास्या यजते, अमावास्यायाममावास्यया' इति वाक्या- भ्यामुक्तकर्मानुवादेन कालविधानात् । यद्यप्युक्तवाक्ये रूपं न श्रूयते तथापि 'वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती अमावास्यायाम्' इति वचनेन आज्यभागक्रमाम्नातानामपि ऋचां क्रमं बाधित्वा उक्तकर्म- द्वयाङ्गत्वेन विधानान्मान्त्रवार्णिकामिसोमदेवताया धौवाज्यरूपद्रव्यस्य च लाभसम्भवात्, यदामेय इत्यादिवाक्यैरेव वोक्तकर्मणी पौर्णमास्यमा- वास्याशब्दाभ्यामनूद्य द्रव्यदेवताविधानसम्भवाद्रूपलाभः । एवञ्च ‘दर्श- । 1 शक्यज्ञानमपि लक्षणीयेन. 6