पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] विशेषत्वोऽनुमानानि , एव । शुक्तिरूप्यम्, मिथ्यात्वेन प्रपञ्चान्न भिद्यते, व्यवहारविष- यत्वात् ब्रह्मवत् । साध्यसवमत्र त्रेधा – स्वस्यामिथ्यात्वेनो- भयोर्मिथ्यात्वेनोभयो रमिथ्यात्वेन वा । तत्रान्तिमपक्षस्यासम्भ- वात्पक्षे साध्यसिद्धिपर्यवसानं मध्यमपक्षेण । दृष्टान्ते तु 435 तद्भेदव्यक्तिव्याप्यमतत्त्वमिति तत्र तत्त्वाभावसाघनं परस्यानिष्टमिति ध्येयम् । मिथ्यात्वेन प्रपञ्चान्न भिद्यत इति । मिथ्यात्वहेतुक- प्रपञ्चभेदवत्त्वस्य अभाववदित्यर्थः । उक्तमेदवत्त्वंच स्वविशेष्यिका या प्रपञ्चभेदव्याप्यमिथ्यात्वप्रमा तज्जन्यानुभितिविषयो य प्रपञ्चभेदस्त- द्वत्त्वम् । तद्धेतुकत्वस्य तत्प्रमाघटितत्वावश्यकत्वात् । न हि भवति निर्धूमो धूमन वन्हिमानिति । यत्रोक्तमेदवत्त्वं स्थाप्यं स स्वपदार्थः। तथाच मिथ्यात्वव्यापकं यन्मिथ्यात्वसमानाधिकरण तत्त्वेन रूपेण प्रपञ्च- भेदस्यामावः पर्यवसितसाध्यम् । स्वमते उक्तरूपविशिष्टस्य प्रपञ्चभेदस्या- प्रसिद्धावपि घटत्वेन पटस्येव उक्तरूपेण प्रपञ्चभेदस्याभावो नाप्रसिद्धः । व्यवहारेत्यविवक्षितम् । स्वस्येति । यत्र साध्यं स्थाप्यं तस्येत्यर्थः उभयोरिति । स्वस्य प्रपञ्चस्य चेत्यर्थः । अन्तिमपक्षस्येति । आद्यपक्षासम्भवेनेत्यादिः । तेनाद्यपक्षासम्भवानुक्तया न न्यूनता । परमतेऽपि पक्षे मिथ्यात्वस्वकारात् तत्राद्यान्त्यपक्षयोरसम्भवः । तयो- स्सम्भवे तु प्रपञ्चाभन्नेऽपि पक्षे मिथ्यात्वरूपविशेषणाभावात् उक्त विशि- ष्टरूपेण प्रपञ्चभेदाभावसम्भव इति भावः । मध्यमेति । मिथ्यात्व- समानाधिकरणप्रपञ्चभेदाश्रयेडाप पक्षे उक्तविशिष्टरूपेण न तादृशभेदः । मिथ्यात्वव्यापकत्वरूपविशेषणस्य तदभावात्, प्रपञ्चम्सत्यः पक्षो मिथ्येति 3 स्वीकारे तूक्तविशिष्टरूपेण पक्षे प्रपञ्चभेदस्य सत्त्वान्न साध्यपर्यवसा- नम् । अतएव स्वस्य मिथ्यात्वं प्रपञ्चस्य सत्यत्वमिति पक्षः साध्य - पाठः, ! भात्मत्वमिति 2 3 तत्राभावात्. 'सत्य तथाच सिद्धसाधनम् इत्यधिक ! ' साध्यपर्यवसितमिथ्यात्वं प्रपञ्चस्य सत्त्वे च पर्यवसानात् इत्यधिकपाठः 28*