पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

434 अद्वैतसिद्धिव्यख्यायां गुरुचन्द्रिकाया [ प्रथम रत्वात्, कालवत् । आत्मत्वावच्छिन्नम्, परमार्थसच्चाधिकरण- प्रतियोगिक भेदत्वावच्छिन्नरहितम्, परमार्थसत्वात्, परमार्थसत्त्वा- वच्छिन्नवत् । परमार्थसति परमार्थसद्भेदाङ्गीकारवादिमतेऽपि सद्भेदो न परमार्थसत्त्ववनिष्ठः, किन्तु घटत्वाद्यवच्छिन्ननिष्ठ णतावानित्यर्थः । तेन घटादे: स्वनाशकालाद्यवच्छेदेन घटत्वाद्यभाव- वत्त्वेऽपि न सिद्धसाधनम् । समवायादिसम्बन्धेन घटत्वादेरत्यन्ता- भावस्य दैशिकविशेषणतया अधिकरणत्वं साध्यम् । कालवदिति । घटादिभिन्नकालबदित्यर्थः । किन्तु घटत्वावच्छिन्नेति । न च पर- मार्थस'द्धटो नेत्यादिप्रतीतेः परमार्थसत्त्वोपहिते तद्भेदविषयकत्वान्नेदं युक्तमिति बाच्यम्; तस्य घटत्वाद्युपहितप्रतियोगिक भेदावगा हित्वेऽपि परमार्थत्वोपहितप्रतियोगिकभेदाविषयकत्वात् । न च परमार्थसत्त्वोप- हितनिष्ठां घटत्वाद्यवच्छिन्नां प्रतियोगितां विषयी कुर्वन्त्या परमार्थसत्त- त्त्वोपहित नेति प्रतीत्या तदवगाहनमावश्यकमिति वाच्यम्; तादृश- प्रतीतेस्तार्किकसम्प्रदाया सम्मतत्वात् । प्रतियोग्यंशे प्रकारतावच्छेदकता- पर्याप्तयधिकरणमेव हि प्रतियोगितावच्छेदकतया मातीति तत्सम्मतम् । अतएव पर्वतवृत्तिधूमवन्निष्ठाभावप्रतियोगितावच्छेदकं न वह्नित्वमिति धीः पर्वतवृत्तित्वाविशेषितधर्मावच्छिन्न प्रतियोगिताकं भेदं नावगाहत इति व्यभिचारधीकालेपि तादृशधीसम्भवेन तस्या अनुमितिहेतुत्व खण्डयन्ति । अथवा आत्मत्वम्, परमार्थप्रतियोगिकभेदकूटान्तर्गतया कयापि व्यक्तया न व्याप्यम्, परमार्थवृत्तित्वात् परमार्थत्ववदित्यत्र तात्पर्यम् । परमार्थत्वे परमार्थप्रतियोगिक भेदत्वावच्छिन्नव्याप्यतासत्त्वेपि तत्तद्भेद व्यक्तित्वावच्छिन्नं प्रति व्याप्यता नास्ति, भ्वप्रतियोगिनि परमार्थे तम्याभावादिति । परमार्थभेदवृत्युभयावृत्तिधर्मावच्छिन्नं प्रति या व्याप्यता तद्भावरूपसाध्यं तत्रास्त्येव । आत्मान्यपरमार्थस्वीकारे च 1 सिद्धघ. 2 सम्मतत्वात् -