पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भाविबाधोद्धारः आद्ये सिद्धसाधनम् । तस्यात्मान्य सर्वमध्यपतितासवृत्तित्वा- भावात् । द्वितीये तु हेतौ मिथ्यापदस्य सदसद्वैलक्षण्यपरत्वे स्वरूपासिद्धिः । सद्वैलक्षण्यरूपे पक्षे तुच्छसाधारणे सदसद्वि- लक्षणेतरावृत्तित्वरूपहेत्वभावात् । तस्यापि सद्वैलक्षणण्यमात्र- परत्वे सन्दिग्धानैकान्तिकता, साध्याभाववत्यात्मभेदे हेतुसन्दे- 409 त्वात् । प्रमेयत्वे प्रमेयत्वान्तरं तु न प्रमेयत्वत्वन रूपेण, सम्बन्धप्रति योगित्वानुयोगित्वविरहेण्मधाराधेयभावविरहात् । न च प्रमेयत्वे मिथ्या- त्वमसिद्भमिति वाच्यम्; घटः प्रमेयत्व मित्यारोपसत्त्वात् । तथाच येन रूपेण साध्ये वृत्तिर्निविष्टा, तेन रूपेणोपाधाविति न दोषः । न चैवं मिथ्यात्वस्यापि स्वावृत्तित्वेन मिथ्यात्वन्यूनवृत्तित्वात् साधनव्यापकत्वमिति वाच्यम् ; व्यावहारिक मिथ्यात्वे मिथ्यात्वस्य पूर्वमसिद्धत्वात् । अत- एवासदन्यत्वादावपि न साध्याव्यापकत्वम् । असदन्यत्वादिभिन्नत्वरूपप क्षधर्मावच्छिन्नसाध्यव्यापकत्वादरे तु सुतरां न दोषः । किञ्च सदुप- रागेण असतोऽपि प्रमाविषयत्वात्, अन्यथा आत्मान्य सर्वमध्यपतिता- सद्घटितसाध्यप्रमाया असम्भवात् प्रमेयत्वादेः स्ववृत्तित्वमतेऽपि सा- ध्यव्यापकत्वमक्षतम् – सर्वमध्येति । न च सर्वपदेन असदन्यत्सर्वं वाच्यमिति वाच्यम्; असत्त्वस्य त्वन्मते शुक्तिरूप्यादावपि स्वी- कारेण सर्वपदवैयथ्यापत्तेः । मन्मतरीत्या सदसदन्यत्वस्य पक्षे निवे- शेऽपि सदन्यत्वमात्मव्यक्तित्वावच्छिन्नभेद एव निवेश्यः । अन्यथा त्रिकालाबाध्यत्वरूपसत्त्वस्य गुरुत्वेन तेन रूपेण भेदाप्रसिद्धेः । तथा- चात्मासद्भयां भिन्नत्वं स्वाश्रय सर्ववृत्ति, नेत्यनुमाने बाध एव । गुरोरवच्छेदक 'त्वपक्षेsपि मन्मते सदन्यत्वस्य आत्मान्यत्वरूपतया माम्प्रति बाधएव । तथा च मन्मते दुष्टहेतोः मां प्रत्युपन्यासस्ते 2 । असदन्यसर्व. 2 रसवच्छेदक.