पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिभ्याख्यायां गुरुचन्द्रिकायां [प्रथमः अविद्याध्यासस्य अध्यासान्तरानपेक्षत्वात् । स्वपरसाधारणसर्व- निर्वाहकत्वोपपत्तेः अकल्पितस्य कल्पकत्वादर्शनाच्च । कल्पित- 400 1 व्यापारिणस्तु व्यापारजन्याजनकत्वे कथं व्यापारव्यापारिता ? तज्जन्यत्वे सति तज्जन्यजनकस्यैव व्यापारतायास्तान्त्रिकोत्तत्वात् का वा तत्र तद्धेतुत्वेऽनुपपत्तिः ? कार्यवति साक्षात्सम्बन्धेन असतोपि व्यापारिणो व्यापारसम्बन्धेन सत्त्वात् कार्याव्यवहितप्राक्कालावच्छेदेन कार्यवन्निष्ठो यो व्यापारसम्बन्धावच्छिन्नाभावः तदप्रतियोगित्वात् । अन्यथादृष्टादेः परस्परासम्बन्धेन रूपादिभोग्यजनकत्वानुपपत्तेः । यागादेश्च स्वर्गादि- जनकत्वान्यथानुपपत्त्या धर्मादिकल्पना तार्किकमीमांसकायुक्ता न स्यात् । स्वर्गकामो यजेतेत्यादेश्च अप्रामाण्यं स्यात् । न हीष्टप्रयो- जकत्वं विध्यर्थः, इष्टकारण कारणत्वरूपस्य तस्य इष्टकारणत्वापेक्षया गुरुत्वात् । अत एव 'अभिकामः काष्ठमाहरेत्' इत्यादिलौकिक- बाक्ये पूर्णाहुत्या सर्वान् कामानवाप्नुयात्' इत्यादिश्रुतौ चेष्ट- कारणकारणत्वे लक्षणैव । अत एव 'अविभागातु नैवं स्यात्, उत्पत्तौ विध्यभावात्' इति सूत्रयोर्व्याख्याने सप्तमे शाबरभाष्ये उक्तं यंथा गोमयैः पचन्ति, तुषपक्का भवन्ति इत्यादौ अभिसाध्ये पाके गोमयादीनां करणत्वं, तथा यागस्यापूर्वद्वारा स्वर्गसाधनत्वम् । उक्तं च तत्र तन्त्ररले अनेन भाष्येण यागस्य फलसाधनत्वमुपपादयता तस्य तदनुपपत्त्या यागसाध्यमपूर्वमेव यजेतेत्यादेरर्थ इति प्राभाकरमत निरस्तम् । किञ्च तन्मते उक्तवाक्ये गोमयादिपदे तत्साध्यामाविव सर्वेभ्यो दर्शपूर्णमासावित्यादावपि दर्शादिसाध्यापूर्वे दर्शादिपदे लक्षणा स्यादित्यादिलाघवेन सत्त्वं कारणत्वे प्रयोजकमिति तु न युक्तम् ; त्रिकालाबाध्यत्व रूपतदपेक्षया कालसम्बन्धस्यैव लाघवेन तत्त्वात्, b 1 श्रीते. .