पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः भाविबाधोद्धारः 395 प्रियासङ्गमादिविशेषिताप्रमाणीभूतज्ञानस्यार्थक्रियाकारित्वदर्शने - न तद्विषये तत्र ज्ञानमेव सुखादिजनकं तच्चाबाध्यमेवेति मतं, तदसत् | ज्ञानमात्रस्य हि तादृकुसुखाजनकत्वेन किञ्चि- द्विशेषितस्यैव तथात्वं वाच्यम् । ज्ञाने च विशेषो नार्थातिरिक्तः । तदुक्तम् 'अर्थेनैव विशेषो हि निराकारतया धियाम्' । इति । अर्थनेति अर्थ एवेत्यर्थः । तथाच मिथ्याभूतविशेषितस्य ब्रह्माधिष्ठानकत्वपक्षे तदबाध्या स्वामधीरिति भावः । सङ्गमादी - त्यादिना सोयमित्यादिवाक्यजन्यनिष्प्रकारकघटादिश्रादिपार- ग्रहः । विशेषितेत्यनेन सङ्गमादेरर्थक्रियाकारित्वं दर्शितम् । नन्वर्थस्य प्रियासङ्गत्वादिना कारणतावच्छेदकत्त्रे गौरवात् ज्ञाने जातिविशेष एव तथा कल्प्यताम् तत्राह- - सदुक्तमिति निराकारतयेति । ज्ञानगतविशेषाङ्गीकारे तेनैव ज्ञानाकारेण ज्ञानाभिन्नेन नीलादिरूपेण नीलं जानामीत्यादिव्यवहारोपपत्तौ नीलादिबहिरर्थम त्रलोपापत्तेः बहि- रर्थाघटितस्य विशेषस्य ज्ञानेऽनुपलब्देश्च तादृशविशेषो ज्ञानेनाङ्गी क्रियते । अतएवानुमितित्वादिकं नाखण्डो ज्ञानधर्मः, किन्तु व्याप्ति पक्षधर्मताघीजन्यत्वादिरूपः । इन्द्रियजन्यत्वाद्यनुपस्थितौ साक्षात्कार- त्वादिकं न प्रतीयत एवेति भावः । किञ्च सुखादि ' जनकता- वच्छेदकत्वेन कल्प्यमाना जाति: ज्ञाने अर्थे वा स्वीकार्येत्यत्र न विनिगमकम्, स्वानार्थस्य सुखादिसामानाधिकरण्यासम्भवात् । न च जाग्रदर्थस्य साक्षिसम्बन्धाभावकाले सुखादिसामानाधिकरण्याभावेन तस्याहेतुत्वमिति वाच्यम्; अर्थप्रत्यक्षमात्रस्य कारणतास्थले तस्य हेतुतासम्भवात् ज्ञानमात्रस्य हेतुतास्थलेऽपि स्वामार्थेषु जाग्रज्ज्ञानेषु 1 ज्ञानेऽङ्गी. 2 श्रुत्यादि. १ 1 - ●