पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

394 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः हेतुः । सत्यत्वसिद्धिं विना अनिषेध्यत्वेनेत्यस्य असिद्धेः । तथाचान्योन्याश्रयः । न चेश्वरज्ञानविषयस्य प्रपञ्चस्य मिथ्यात्वे तस्य भ्रान्तत्वप्रसङ्गः । मिथ्याभूतस्य मित्यात्वेनेव ग्रहणात् । ऐन्द्रजालिकवत् भ्रान्तित्वायोगात् । अन्यथा सविपयकश्रम- ज्ञातृत्वेन भ्रान्तत्वस्य दुर्वारत्वापत्तेः । अथ निषेध्यत्वेन ज्ञाने तत्पालनार्थमीश्वरस्य प्रवृत्तिर्न स्यात् ऐन्द्रजालिकप्रवृत्तिव- दीश्वरप्रवृत्तेरपि तथाविधत्वात् । नापि सप्रकाराबाध्यार्थ- क्रियाकारित्वं हेतुः, सप्रकारकजाग्रदोधाबाध्यस्वमजलावगाहन- दिकं तु भाप्योक्तमनास्थयानूदितमिति ध्येयम् । तस्य तत्र | भ्रान्तत्वप्रसङ्गः विशेषदर्शिनां भ्रान्तत्वव्यवहारप्रसङ्गः । मिथ्या- त्वेनेति । तथाच स्वसमानाधिकरणविशेषदर्शनाकालीनस्य बाधित - विषयकज्ञानस्य आश्रयत्वं भ्रान्तव्यवहारे विषयकालीनान्तविशेषणानु- पादाने उक्तविशेषदर्शनकालीनस्य सोपाधिक भ्रमस्याश्रये पुरुषेऽप्यहं भ्रान्त इति व्यवहारस्स्यादिति भावः । अन्यथा उक्तविशेषदर्शन- कालीन भ्रममादाय भ्रान्तत्वव्यवहारे । सविषयक श्रमज्ञातृत्वेनेति । विषयतापर्याप्तयधिकरणं यन्मुखादिविशिष्टदर्पणादि तद्विशिष्टभ्रमस्य मिथ्यात्वेन यत् ज्ञातृत्वं तेनेत्यर्थः । भ्रान्तत्वस्य | भ्रान्तत्वव्य- वहारस्य | यथाश्रुते बाधितविषयकज्ञानत्वरूपभ्रान्तत्वम्येष्टत्वादसङ्गतेः । तथाविधत्वादिति । विसंवादित्वेन ज्ञायमानत्वादित्यर्थः ! संवादित्वेन ज्ञायमानप्रवृत्तौ प्रमातृत्वेन ज्ञायमानस्योपादानप्रत्यक्षादेः हेतुत्वेप्यता_ दृशप्रवृत्तावतादृशम्य तस्य हेतुत्वमविरुद्धमिति भावः । सप्रकारा- बाध्येत्यादि । सप्रकाराबाध्यं यदर्थक्रियाकारि तत्त्वादित्यर्थः । जाग्रहोघेति । मनोवच्छिन्न चेतन्यादेरविष्ठानत्वपक्षे जाग्रद्धीबाध्यत्वे पिड