सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

392 अद्वैतासद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः अतएवा निषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वादित्यपि न हेतुः । किञ्च प्रमात्वं तद्वति तत्प्रकारकत्वं तत्त्वावेदकत्वं वा । आद्ये दृष्टान्तस्य साधनवैकल्यम् । न हि परमार्थसतः शुद्धस्य सामान्यभिन्ना नवच्छिन्नत्वघटितत्वे मानाभावात्, अन्यथा तादृशप्रति- योगितान्तरकल्पने गौरवात् । अथाभावरूपे ब्रह्माणि निर्धर्मके न हेतु- तावच्छेदकं, किन्तु तत्प्रतियोगित्वमेव अन्यत्र, अतएव व्याप्यत्वमपि न तत्रेति मन्यसे ; तर्हि व्यापिग्रहाभावात्तवैव विपत्तिः । ब्रह्मादित्रिषु एकं व्यावृत्तिप्रयोजकमित्यादि युक्तमेव । यद्यपि ब्रह्मणि तत्स्वरूपे अन्यत्र धर्मस्वरूपे व्यावृत्तिप्रयोजके, तथापि त्ययोक्तं तदैक्य' मङ्गी- कृत्याक्तत्वात् । तथाच त्वयैव स्वविपद्वीजमिदं चिन्तितम् । अतएव ब्रह्मविश्वयोस्तु प्रातिभासिकासद्व्यावृत्तिरेकेति ते व्यामोह एव । एकैक- व्यावृत्तेरिव तस्या अध्यनैक्यात् । अथ व्यावृत्तितत्प्रयोजकयोः अनै- क्येपि ज्ञानविशेषविषयत्वेनानुगतरूपेण प्रयोज्यप्रयोजकत्वमिति चेन्न; एवमपि ब्रह्मप्रपञ्चोभयमात्रविषयकधीविषयत्वादेरेव प्रयोजकत्वसम्भ- वात् प्रपञ्चे सत्यत्वासिद्धेः । वस्तुतस्तु प्रयोजकाभावेऽपि न क्षतिः । न लेकधर्मविशिष्टे एव उक्तव्यावृत्तिधीरिति नियमे मानमस्ति । अत एव तर्काभावादुक्तहेतोः साध्यव्याप्यत्वाग्रहेण नित्यत्वस्य साध्यव्याप- कताग्रहसम्भवात् । व्यापकीभूतोपाध्यभावे व्याप्यभूतसाध्याभावव्या- प्यत्वग्रहः, नित्यत्वाभावो यदि सत्त्वाभावव्यभिचारीस्यात् तदा सत्त्व - व्यापकप्रतियोगिको न स्यादिति तर्कात् । अतएबेति । बाधानुपपत्ति- रूपप्रतिकूलतर्कपराघातात् नित्यत्वोपाधिमत्वाच्चैवेत्यर्थः । अनिषेध्यत्वे- नेति । विषयत्वान्वयिस्वाधिकरणवृत्तिनिषेधप्रतियोगित्वविषयत्वानेिरू- पितत्वेनेति तदर्थः । न हि परमार्थत्वेति । ब्रह्मणोऽज्ञानमित्यादि 1 प्रातिभासिकस्य तदैक्य,